This page has been fully proofread once and needs a second look.

T
 
६० ]
 
महाकविवाण-विरचितं चण्डीशतकम्
 
। पद्याङ्क २० व्याख्या
 
रूपम् [ईशःश:] शूले तस्मिन्निखाते सति, शूलस्यास्तीति गूशूली इति ईश्वरस्य यशो

गृह्णाति, शूलिशब्दस्य वाच्यत्वात्, अतः शूलं नोपात्तमिति भावः । तर्हि दण्डः

किमिति नोपात्त इति आशङ क्याङ्क्याऽऽह, वधार्हे वधमर्हत्तीति वधार्हः तस्मिन् वधयोग्ये

दण्डो वित्तादानं, दण्डशब्देन वित्तादानं आयुधविशेषश्च शब्दच्छलेनोच्यते, स

दण्डः परिलघुः श्नत्यल्प:पः स्यात्, वध्ये नीतिशास्त्रविरोधात् वध एवं न्याय्यो न

दण्ड इति भावः । एवं तत्तद्दोषदर्शनात् हेतीर्हित्वा पार्ष्याण्य एव रिपुं व्यापादयन्ती

भगवती वः पायादिति वाक्यार्थः ॥२०॥
 

 
सं० व्या० - २०. खड्गे पानीयमिति । पार्वती पर्वतपुत्री वो युष्मान् श्रवतात् रक्षतु

किं कुर्वती, सुररिपुं देवशत्रुं प्रोषितासुं विगलितप्राणं कुर्वती, प्रोषिता प्रसवो यस्येति
त्ति
विग्रहः । कया प्रोषितासुसुं कुर्वती, पार्ष्ण्यँयैव पादपश्चिमभागेनैव न प्रायुधेन

इत्येव शब्दोऽवधारयति प्रत एवायुधानां खड्गादीनां प्रत्र कविरुत्प्रेक्षया परिहार-

मुक्तवान् । किंभूतया पार्ष्ण्या अभिहतिहलितप्राक्तनापाटलिम्ना अभिहत्या अभि
-
घातेन बहलितः सान्द्रीकृत:तः प्राक्तनः पूर्वं श्रा(समन्तात् ) पाटलिमा श्रापाटलत्वं

यस्याः पार्ष्णेः सा तथोक्ता तयायाः पार्ष्ण्या, आरक्तत्वं नैसर्गिकं अभिघातेन ननु तदैव

बहलितमित्यर्थः । किं कृत्वा प्रोषितासुं कुर्वती पार्वती, हित्वा हेती: त्यक्त्वा प्रहर-

णानि इतीव एवमिव कथमिति तदुच्यते, खड्गे पानीयमित्यादि, हि यस्मात् खड्गे

पानीयं तत्पादं ह्लादयत्याह्लादं करोति महिषितोऽसौ न योग्यः शत्रोरुपकारित्वा-

दिति भावः, पक्षपाती पृषत्क इति कृत्वा असावप्ययोग्य:यः, शूलिन ईशस्य यशो-

भाग् भवति यशो लभते, किल शूली शङ्करः, (तत्) प्रेषितः असावपि शूलयोगात्

तद्विधःध: स्यात्, ईश इति क्विपि षषान्तं (षष्ठ्यन्तं ) रूपं, वधमर्हतीति

वधार्हस्तस्मिन् वधार्हेऽपि दण्ड:डः परिलघुफलः स्यात्, यो हि वध्यस्तत्र दण्डो न

युज्यते इति भावः ॥२०॥
 

 
कृत्वेदृक् कर्म्म लज्जाजननमनशने शक नासून्'[^१] जहासि
 
[^२]
द्रव्येश'[^३] स्थाणुकण्ठे जहि गदमगदस्यायमेवोपयोगः[^४]

जातश्चक्रिन्'[^५] विचकोक्रो दितिज इति सुरांस्त्यक्तहेतीन् ब्रु वन्त्या
वन्त्या
व्रोरीडां व्यापादितारिर्जयति विजयया नीयमाना भवानी ॥२१॥
 

 
----------------
[^
.] ज० का० माSसून् ।

[^
.] ज० का० जहासी --

[^
.] ज०
 
रर्थेश; का०-र्वित्तेश ।
[^
.] ज०
 
५. ज०
 
-रर्थेश; का०-वित्तेश ।
गदमगदस्योपयोगोऽयमेव ।

[^५] ज०
जातश्चक्री ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy