This page has not been fully proofread.

T
 
६० ]
 
महाकविवाण-विरचितं चण्डीशतकम्
 
। पद्याङ्क २० व्याख्या
 
रूपम् [ईशः] शूले तस्मिन्निखाते सति, शूलस्यास्तीति गूली इति ईश्वरस्य यशो
गृह्णाति, शूलिशब्दस्य वाच्यत्वात्, अतः शूलं नोपात्तमिति भावः । तर्हि दण्डः
किमिति नोपात्त इति आशङ क्याह, वधार्हे वधमर्हत्तीति वधार्हः तस्मिन् वधयोग्ये
दण्डो वित्तादानं, दण्डशब्देन वित्तादानं आयुधविशेषश्च शब्दच्छलेनोच्यते, स
दण्डः परिलघुः श्नत्यल्प: स्यात्, वध्ये नीतिशास्त्रविरोधात् वध एवं न्याय्यो न
दण्ड इति भावः । एवं तत्तद्दोषदर्शनात् हेतीहित्वा पार्ष्या एव रिपुं व्यापादयन्ती
भगवती वः पायादिति वाक्यार्थः ॥२०॥
 
सं०व्या० - २०. खड्गे पानीयमिति । पार्वती पर्वतपुत्री वो युष्मान् श्रवतात् रक्षतु
किं कुर्वती, सुररिपुं देवशत्रुं प्रोषितासुं विगलितप्राणं कुर्वती, प्रोषिता प्रसवो यस्येति
विग्रहः । कया प्रोषितासु कुर्वती, पाष्ण्यँव पादपश्चिमभागेनैव न प्रायुधेन
इत्येव शब्दोऽवधारयति प्रत एवायुधानां खड्गादीनां प्रत्र कविरुत्प्रेक्षया परिहार-
मुक्तवान् । किंभूतया पार्ष्या अभिहतिवहलितप्राक्तनापाटलिम्ना अभिहत्या अभि
घातेन बहलितः सान्द्रीकृत: प्राक्तनः पूर्वं श्रा(समन्तात् ) पाटलिमा श्रापाटलत्वं
यस्याः पार्ष्णेः सा तथोक्ता तया पार्ष्या, आरक्तत्वं नैसर्गिक अभिघातेन ननु तदैव
बहलितमित्यर्थः । किं कृत्वा प्रोषितासुं कुर्वती पार्वती, हित्वा हेती: त्यवत्वा प्रहर-
णानि इतीव एवमिव कथमिति तदुच्यते, खड्गे पानीयमित्यादि, हि यस्मात् खड्गे
पानीयं तत्पादं ह्लादयत्याह्लादं करोति महिषितोऽसौ न योग्यः शत्रोरुपकारित्वा-
दिति भावः, पक्षपाती पृषत्क इति कृत्वा असावप्ययोग्य:, शूलिन ईशस्य यशो-
भाग् भवति यशो लभते, किल शूली शङ्करः, (तत्) प्रेषितः असावपि शूलयोगात्
तद्विधः स्यात्, ईश इति क्विपि षषान्तं (षष्ठ्यन्तं ) रूपं, वधमर्हतीति
वधार्हस्तस्मिन् वधार्हेऽपि दण्ड: परिलघुफलः स्यात्, यो हि वध्यस्तत्र दण्डो न
युज्यते इति भावः ॥२०॥
 
कृत्वेक् कर्म्म लज्जाजननमनशने शक नासून्' जहासि
 
द्रव्येश' स्थाणुकण्ठे जहि गदमगदस्यायमेवोपयोगः ।
जातश्चक्रिन्' विचको दितिज इति सुरांस्त्यक्तहेतीन् ब्रु वन्त्या
व्रोडां व्यापादितारिर्जयति विजयया नीयमाना भवानी ॥२१॥
 
१. ज० का० माSसून् ।
२. ज० का० जहासी ।
३. ज०
 
४. ज०
 
५. ज०
 
-रर्थेश; का०-वित्तेश ।
गदमगदस्योपयोगोऽयमेव ।
जातश्चक्री ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy