This page has not been fully proofread.

पद्याङ्क १९-२० व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ ge
 
मायुधविशेषं हारे विन्यस्य, किंभूतं वज्रं हरेरिन्द्रस्य करो हस्तः ततो गलितं,
महिपक्षोभादिति विज्ञेयं, न केवलं वज्रं हारे विन्यस्य कण्ठसूत्रे ग्रंवेयके चक्रं
विन्यस्य तदपि हरिकरगलितं विष्णुकराद्भ्रष्टम् । अव्धिर्वरुणस्तस्य पाशा अव्धि-
पाशास्तै: केशान् धम्मिल्लान् बद्ध्वा संयम्य, अत्र योग: कतु युक्त इति वज्र-
चक्रे तत्र विन्यस्ते, केशवन्धस्तु दृढमावरुणपाश: कृत इति भावार्थ: । यातानेक्षत
देवानित्थंभूतान् जया मोलतः उत्सारणोत्का ह्रेपयन्ती, अत एव प्रधानदेवोपहास-
कारणेन ह्रीमत्या हैमवत्या तज्जतेति ॥१६॥
 
खड्गे पानीयमाह्लादयति हि महिषं पक्षपाती पृषत्कः
 
शूलेनेशो यशोभाग् भवति परिलघुः स्याद्वधार्हे तु' दण्डः ।
हित्वा हेतीरितीवाभिहतिबहलितप्राक्तनापाट लिम्ना
 
>
 
पाष्पर्यैव प्रोषितासुं सुररिपुमवतात् कुर्वती पार्व्वती वः ॥२०॥
कुं० व० – पार्व्वती पर्व्वततनया वो युष्मान् अवतात् रक्षतु । कि कुर्वती,
पार्ष्या एव सुररिपुं प्रोषितासुं गतप्राणं कुर्वती ; एवकारोऽत्र साधनान्तरव्या-
वृत्यर्थ: (22b) वामपादैकदेशेनेत्यर्थः, किंभूतया पार्ष्या अभिहतिबहलितप्राक्तना-
पाटलिम्ना, अभिहतिरभिघातः तेन बहलित: सान्द्रीकृत: प्राक्तन: पूर्वः, श्रा
सामस्त्येन पाटलिमा यस्याः सा तथा तया, 'श्वेत रक्तस्तु पाटलः', पार्ष्णे: किल
नैसर्गिकं रक्तत्वं विद्यते, अविद्यते न; तत् घनीभूतमित्यर्थः । किं कृत्वा इतोव
हेतीरायुधानि हित्वा त्यक्त्वा इतीति कि खड्गादिषु आयुधेषु सत्सु कि इति
पाष्णिप्रयासाय परमेश्वरी प्रवृत्ता तत्कविः श्लेषोक्त्योत्प्रेक्ष्य ग्रह, खड्गस्ताव-
त्तिष्ठतु, कथं खड्गे पानीयं विद्यते तच्च महिषं श्राह्लादयति यो यस्याह्लादको
भवति स तस्य मारणाय प्रवर्त्तते ? पानीयं खलु लोके महिषाह्लादजनकं भवति,
उत्तेजिते खड्गे निर्मला छाया पानीयशब्देन व्यवह्रियते । तहि बाण: किमिति
नोपात्तं तदाऽऽह, पृषत्को बाणः हि यस्मात् पक्षपाती, पक्षे पततीत्येवंशीलः, अत्रो-
क्तिलेश: य: पक्षपाती भवति स परं प्रति प्रहितो न कार्यं साधयतीति न शत्रुषु
प्रेरयितु योग्यः । आत्मीयभावः पक्षपातः 'उभयवेतनी पक्षपाती च न तेषु
प्रयोज्य' इति हि नीतिविदां रहस्यं, प्रत्रोभयत्र शब्दच्छलम् । किं च शूलेन महिषे
हते ईश ईश्वरो यशोभाग्भवति, सत्यपि देव्याः शूले आयुधे ईश्वरस्येवाsसाधा-
रणमायुधमिति शूलीति नामश्रवणात् । अतः शूलं न तत्र व्यापारयामास, तदा
आयुधेन हननात् तस्यैव यशो भवतीति । अथ ईष्टे इति 'ईट् क्विपि' षष्ठ्यन्त-
·
 
१. ज० का० स्याद्वधार्हेऽपि ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy