This page has been fully proofread once and needs a second look.

वज्रं विन्यस्य हारे हरिकरगलितं कण्ठसूत्रे च चक्रं
केशान् बद्ध्वाब्धिपाशैर्धृतधनदगदा प्राक्प्रलीनान् विहस्य ।
देवानुत्सारणोत्का किल महिषहतौ मीलतो ह्रेपयन्ती
ह्रीमत्या हैमवत्या विमतिविहतये तर्ज्जिता स्ताज्जया वः ॥१९॥
 
कुं० वृ०--जया देव्याः प्रतीहारी वो युष्माकं विमतिविहतये स्तात् दुर्म्मति-
विनाशाय भूयात्, किंविशिष्टा जया, तर्जिता भर्त्सिता, कया हैमवत्या पार्व्वत्या,
किंभूतया ह्रीमत्या, ह्रीर्विद्यते यस्याः सा ह्रीमती तया, इदं कर्म यन्मयाऽद्भुत-
मकारि तत्पुरुषस्य कर्त्तुर्युक्तं न अबलाया इति; अथवा सतां स्वकीयकृत-
कर्म्मख्यापने लज्जा भवत्येव । किंभूतान् देवान् ह्रेपयन्ती लज्जां प्रापयन्ती, किं
कृत्वा विहस्य अर्थात् देवान् किंभूतान् प्राक्प्रलीनान्, पूर्वं पलायितान्, पुनः
किंभूतान्, किल इति मन्ये, महिषवधे मीलतः एकीभवतः । किंविशिष्टा जया
उत्सारणोत्का निवारणतत्परा, पुनः किंभूता जया, धृतधनदगदा धृता गृहीता
धनदस्य गदा यया सा तथा । अन्याऽपि प्रतीहारी किल गृहीतवेत्रा भवति, भयत्रस्त-
धनदहस्तयुतां गदां वेत्रस्थाने कृत्वेत्यर्थः । किं कृत्वा, हारे हारयष्टौ वज्रं इन्द्रा-
युधं विन्यस्य, हारे किल वज्रो हीरको विन्यस्यते; वज्रं हरिकरगलितं इन्द्र-
हस्ताच्च्युतं; वज्रशब्द उभयलिङ्गः । च पुनः कण्ठसूत्रे कण्ठाभरणस्थाने चक्रं विन्य-
स्यति, पक्षे चक्रं कण्ठाभरणविशेषः, किंभूतं चक्रं, हरिकरगलितं इन्द्रहस्तात्
कृष्णकराच्च्युतं, पुनः किं कृत्वा अब्धिपाशैर्वरुणपाशैः: केशान् बद्वााु संयम्य,
अब्धिशब्देनाऽत्र तदधिष्ठात्री देवता वरुणो लभ्यते । ननु कथमन्त्राsब्धिशब्देन
वरुणः प्रतिपाद्यते, यावता न केनापि अब्धिशब्देनाऽभिधीयते ? उच्यते, अब्धेः
पाशाऽसंभवात्, तात्स्थ्यादभेदोपचाराद्वा लक्षणया वरुण उच्यते ॥१९॥
 
सं० व्या०--१९. वज्रमिति ॥ जया गौर्या: प्रतीहारी स्तादस्तु वो युष्माकं
किमर्थं विमतिविहतये, विरूपा मतिर्विमतिस्तस्या विहतिर्विमतिविहतिस्तस्यै विमति-
विहतये, तादर्थ्ये चतुर्थी । किंविशिष्टा जया, तर्जिता शिष्टा, कया हिमवतोऽपत्यं
हिमवती (हैमवती) । ह्रीर्विद्यते यस्याः सा ह्रीमती तया ह्रीमत्या हैमवत्या ।
किं कुर्वती जया, ह्रेपयन्ती लज्जयन्ती, कान्, देवान्, किं कुर्वतः, मीलतः
एकीभवतः, क्व महिषहतौ महिषवधे, किंभूता जया, प्रतीहारकर्मणि स्थिता
किलोत्सारणोत्का, विहस्योपहस्य, किंभूतान् प्राक् प्रलीनान् प्राक् पूर्वं प्रकर्षेण
लीनान् अदर्शनमुपगतान् । हासस्तु तदीयमुक्तायुधग्रहणेनैव दर्शितः, तथोच्यते वज्रं
विन्यस्येत्यादि किंभूता जया उत्सारणोत्का, किं कृत्वा धृतधनदगदा वज्र-