This page has been fully proofread once and needs a second look.

५८ ]
 
महाकवि - बाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क १६ व्याख्या
 
वज्र'रं विन्यस्य हारे हरिकरगलितं कण्ठसूत्रे च च
क्रं
केशान् बद्ध्वाब्धिपाशैर्धृ तधनदगदा प्राक्प्रलीनान् विहस्य ।

देवानुत्सारणोत्का किल महिषहतौ मीलतो होह्रेपयन्ती
 

ह्रीमत्या हैमवत्या विमतिविह्तये तर्ज्जिता स्ताज्जया वः ॥१
 
कु

 
कुं
० वृ०--जया देव्याः प्रतीहारी वो युष्माकं विमतिविहतये स्तात् दुर्म्मति-

विनाशाय भूयात्, किंविशिष्टा जया, तर्जिता भर्त्सिता, कया हैमवत्या पार्श्वत्या,
व्वत्या,
किंभूतया ह्रीमत्या, ह्रीर्विद्यते यस्याः सा ह्रीमती तया, इदं कर्म यन्मयाऽद्भुत-

मकारि तत्पुरुषस्य कर्त्तुर्युक्तं न अबलाया इति; अथवा सतां स्वकीयकृत-

कर्म्मख्यापने लज्जा भवत्येव । किंभूतान् देवान् हेह्रेपयन्ती लज्जां प्रापयन्ती, कि
किं
कृत्वा विहस्य अर्थात् देवान् किंभूतान् प्राकृक्प्रलीनान्, पूर्व्वं पलायितान्, पुनः

किंभूतान्, किल इति मन्ये, महिषवधे मीलतः एकीभवतः । किं विशिष्टा जया

उत्सारणोत्का निवारणतत्परा, पुनः किंभूता जया, धृतधनदगदा धृता गृहीता

धनदस्य गदा यया सा तथा । अन्याऽपि प्रतीहारी किल गृहीतवेत्रा भवति, भयत्रस्त-

धनदहस्तयुतां गदां वेत्रस्थाने कृत्वेत्यर्थ:थः । किं कृत्वा, हारे हारयष्टीटौ वज्रं इन्द्रा-

युधं विन्यस्य, हारे किल वज्रो हीरको विन्यस्यते; वज्रं हरिकरगलितं इन्द्र-

हस्ताच्च्युतं; वज्रशब्द उभयलिङ्गः । च पुनः कण्ठसूत्रे कण्ठाभरणस्थाने चक्रं विन्य-
स्थ

स्य
ति, पक्षे चक्रं कण्ठाभरणविशेषः, किंभूतं चक्रं, हरिकरगलितं इन्द्रहस्तात्

कृष्णकराच्च्युतं, पुनः किं कृत्वा अब्धिपाशैर्वरुणपाशैः: केशान् बद्ध वावााु संयम्य,
प्रव्

अब्
धिशब्देनाऽत्र तदधिष्ठात्री देवता वरुणो लभ्यते
ननु कथमन्त्राsब्धिशब्देन

वरुणः प्रतिपाद्यते, यावता न केनापि अब्धिशब्देनाऽभिधीयते ? उच्यते, अब्धेः

पाशाऽसंभवात्, तात्स्थ्यादभेदोपचाराद्वा लक्षणया वरुण उच्यते ॥१
 
T
 

 
सं० व्या०--. वज्रमिति ॥ जया गौर्याःया: प्रतीहारी स्तादस्तु वो युष्माकं

किमर्थं विमतिविहतये, विरूपा मतिविमतिस्तस्या विहतिर्विमतिस्तस्या विहतिर्विमतिविहतिस्तस्यै विमति-

विहतये, तादर्थ्योये चतुर्थी । किंविशिष्टा जया, तर्जिता शिष्टा, कया हिमवतोऽपत्यं

हिमवती (हैमवती) । ह्रीर्विद्यते यस्याः सा ह्रीमती तया ह्रीमत्या हैमवत्या ।
कि

किं
कुवंर्वती जया, हेह्रेपयन्ती लज्जयन्ती, कान्, देवान्, किकिं कुर्वतः, मीलत:
तः
एकीभवतः, क्व महिषहतोतौ महिषवधे, किंभूता जया, प्रतीहारकर्मणि स्थिता

किलोत्सारणोत्का, विहस्योपहस्य, किंभूतान् प्राक् प्रलीनान् प्राक् पूर्वं प्रकर्षेण

लीनान् प्रदर्शनमुपगतान् । हासस्तु तदीयमुक्तायुधग्रहणेनैव दर्शितः, तथोच्यते वज्रं

विन्यस्येत्यादि, किंभूता जया उत्सारणोत्का, किकिं कृत्वा धृतधनदगदा वज्र-
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy