This page has not been fully proofread.

५८ ]
 
महाकवि - बाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क १६ व्याख्या
 
वज्र' विन्यस्य हारे हरिकरगलितं कण्ठसूत्रे च चक
केशान् बद्ध्वाब्धिपाशैधृ तधनदगदा प्राक्प्रलीनान् विहस्य ।
देवानुत्सारणोत्का किल महिषहतौ मीलतो होपयन्ती
 
ह्रीमत्या हैमवत्या विमतिविह्तये तजिता स्ताज्जया वः ॥१६॥
 
कु० वृ० – जया देव्याः प्रतीहारी वो युष्माकं विमतिविहतये स्तात् दुर्म्मति-
विनाशाय भूयात्, किंविशिष्टा जया, तर्जिता भत्सिता, कया हैमवत्या पार्श्वत्या,
किंभूतया ह्रीमत्या, ह्रीविद्यते यस्याः सा ह्रीमती तया, इदं कर्म यन्मयाऽद्भुत-
मकारि तत्पुरुषस्य कर्तुयुक्त न अबलाया इति; अथवा सतां स्वकीयकृत-
कर्म्मख्यापने लज्जा भवत्येव । किंभूतान् देवान् हेपयन्ती लज्जां प्रापयन्ती, कि
कृत्वा विहस्य अर्थात् देवान् किंभूतान् प्राकृप्रलीनान्, पूर्व्वं पलायितान्, पुनः
किंभूतान्, किल इति मन्ये, महिषवधे मीलतः एकीभवतः । किं विशिष्टा जया
उत्सारणोत्का निवारणतत्परा, पुनः किंभूता जया, धृतधनदगदा धृता गृहीता
धनदस्य गदा यया सा तथा । अन्याऽपि प्रतीहारी किल गृहीतवेत्रा भवति, भयत्रस्त-
धनदहस्तयुतां गदां वेत्रस्थाने कृत्वेत्यर्थ: । किं कृत्वा, हारे हारयष्टी वज्रं इन्द्रा-
युधं विन्यस्य, हारे किल वज्रो हीरको विन्यस्यते; वज्रं हरिकरगलितं इन्द्र-
हस्ताच्च्युतं; वज्रशब्द उभयलिङ्गः । च पुनः कण्ठसूत्रे कण्ठाभरणस्थाने चक्रं विन्य-
स्थति, पक्षे चक्रं कण्ठाभरणविशेषः, किंभूतं चक्रं, हरिकरगलितं इन्द्रहस्तात्
कृष्णकराच्च्युतं, पुनः किं कृत्वा अब्धिपाशैर्वरुणपाश: केशान् बद्ध वा संयम्य,
प्रव्धिशब्देनाऽत्र तदधिष्ठात्री देवता वरुणो लभ्यते
ननु कथमन्त्राsब्धिशब्देन
वरुणः प्रतिपाद्यते, यावता न केनापि अब्धिशब्देनाऽभिधीयते ? उच्यते, अब्धेः
पाशाऽसंभवात्, तात्स्थ्यादभेदोपचाराद्वा लक्षणया वरुण उच्यते ॥१६॥
 
T
 
सं० व्या०–१६. वज्रमिति ॥ जया गौर्याः प्रतीहारी स्तादस्तु वो युष्माकं
किमर्थं विमतिविहतये, विरूपा मतिविमतिस्तस्या विहतिविमतिविहतिस्तस्यै विमति-
विहतये, तादर्थ्यो चतुर्थी। किंविशिष्टा जया, तर्जिता शिष्टा, कया हिमवतोऽपत्यं
हिमवती (हैमवती) । ह्रीविद्यते यस्याः सा ह्रीमती तया ह्रीमत्या हैमवत्या ।
कि कुवंती जया, हेपयन्ती लज्जयन्ती, कान्, देवान्, कि कुर्वतः, मीलत:
एकीभवतः क्व महिषहतो महिषवधे, किंभूता जया, प्रतीहारकर्मणि स्थिता
किलोत्सारणोत्का, विहस्योपहस्य, किंभूतान् प्राक् प्रलीनान् प्राक् पूर्व प्रकर्षेण
लीनान् प्रदर्शनमुपगतान् । हासस्तु तदीयमुक्तायुधग्रहणेनैव दर्शितः, तथोच्यते वज्रं
विन्यस्येत्यादि, किंभूता जया उत्सारणोत्का, कि कृत्वा धृतधनदगदा वज्र-
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy