This page has been fully proofread once and needs a second look.

महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क १७ व्याख्या
 
कुं०वृ०--सा उमा पार्व्वती वो युष्माकं श्रिये स्तात् भूत्यंयै भूयात्, सा का यस्याः

स इति प्रसिद्धो महिषः सुररिपुः नूपरान्तावलम्बी सन् लोलेन्द्रनीलोत्पलशकलतुलां

लेभे । इन्द्रनीलश्चासावुत्पलश्च इन्द्रनीलोत्पलः, लोलश्चासाविन्द्रनीलोत्पलश्च

लोलेन्द्रनीलोत्पल:लः तस्य शकलं खण्डः तस्य तुलाँलां तां; किंभूतः पादोत्पिष्ट: पादेन

उत्पिष्ट: चूर्णितः पादोत्पिष्टः, यस्याः नूपुरे पादाभरणे इयानपि महिषः लोलेन्द्र-

नीलशकलवत् लघुर्दृष्ट इत्यर्थः । स कः यो द्युवसतिभिर्देवैः वोवीक्षितः, किं

कुर्व्वन्, धरित्रीं रुन्धन् आवृण्वन्, पुनः किकिंविशिष्टः असिश्यामघाधामा, असेरिव

श्यामं घाधाम यस्यासावसिश्यामधामा कैः कैरित्युत्प्रेक्षायामाह, किंभूतैर्देवैः

नाकौकोनायकाद्यैः नाके प्रोकांसि येषां ते नाकौकसः, तेषां नायक इन्द्रः स आद्यो

येषां ते तथा तैः, पुनः किंभूतैः वृवर्द्धिष्णुविन्ध्याचलचकित मनोवृत्तिभिः, वर्द्धते

इत्येवं शीलो वर्द्धिष्णुः, वर्द्धिष्णुश्चासौ विन्ध्याचलश्च वर्द्धिष्णुविन्ध्याचलः,
वद्ध

वर्द्धि
ष्णुविन्ध्याचलेन चकिता मनोवृत्तिर्येषां ते तथा तैः, उपमागर्भं विशेषणम् ।

यथा पूर्ध्व्वं सूर्यवर्त्मनिरोधार्थं वर्द्धमाने विन्ध्याद्रौ देवान् भयमाविशत् तथैवाऽयं

भूमण्डलं मारयिष्यतीति त्रस्तमनस्कैरित्यर्थः ॥१७॥
 
५६ ]
 

 
सं० व्या०--१७. सा उमा गौरी वो युष्माकं श्रियै विभूत्यै स्तात् भवतु,

स्तादिति तु 'ह्योस्तातङाशिषि चेति तातङादेशः, यस्याः उमायाः पादोत्पिष्ट:

पादेन चूर्णितो वतुं र्तुलीकृत:तः अपकृतोऽपि लघुतामापन्न:नः स महिषः सुररिपुः लेभे

लब्धवान्, महिषश्चासोसौ सुररिपुश्चेति विग्रहः, कां लेभे लोलेन्द्रनीलोपलशकलतुलां

इन्द्रनीलश्चासोसौ उपलश्च इन्द्रनीलोपलस्तस्य शकलं भित्तं इन्द्रनीलोपलशकलं

लोलं च तत् इन्द्रनीलोपलशकलं च तस्य तुलां तुल्यतां लेभे इत्यर्थ:थः । किंभूतो

महिषो नूपुरान्तावलम्बी, नूपुरस्यान्तो मध्यं तदवलम्बितुतुं शीलमस्येति नूपुरान्ताःताऽ-

लम्बी नूपुरमध्यगत इत्यर्थ:थःकिंकिविशिष्टः, वीक्षितः प्रवलोकित:, कितः, किं कुर्वन्

रुन्धन् आवृण्वन् विपुलत्वेन, घाधात्रीं रित्रोंरीं, कैः दृष्टो, धुद्युवसतिभिः द्यौः

स्वर्गो निवासो वसतिर्येषामिति विग्रहः, नाकौकसो देवास्तेषां नायक इन्द्रः स

आद्यः आदिमो येषां तैस्तथोक्त:तैः । किंभूतो महिषःष: असिश्यामधामा असिरिव

श्यामं धाम यस्य सः तथोक्तः, य एवंविधः अत एवोक्त वतं वर्द्धिष्णुविन्ध्याचलचकित-

'
मनोवृत्तिभिर्वीक्षितः इति, वर्द्धनशीलः वर्द्धिष्णुश्चासौ विन्ध्याचलश्च तत्र चकितं

शङ्कितं यन्मनस्तत्रवृत्तिवत्र्वर्त्तनं येषां तैः तथोक्त: ध्रुतैः द्युवसतिभिरिति ॥१७॥
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy