This page has not been fully proofread.

महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क १७ व्याख्या
 
कुं०वृ०-सा उमा पार्व्वती वो युष्माकं श्रिये स्तात् भूत्यं भूयात्, सा का यस्याः
स इति प्रसिद्धो महिषः सुररिपुः नूपरान्तावलम्बी सन् लोलेन्द्रनीलोत्पलशकलतुलां
लेभे । इन्द्रनीलश्चासावुत्पलश्च इन्द्रनीलोत्पलः, लोलश्चासाविन्द्रनीलोत्पलश्च
लोलेन्द्रनीलोत्पल: तस्य शकलं खण्डः तस्य तुलाँ तां; किंभूतः पादोत्पिष्ट: पादेन
उत्पिष्ट: चूर्णितः पादोत्पिष्टः, यस्याः नूपुरे पादाभरणे इयानपि महिषः लोलेन्द्र-
नीलशकलवत् लघुष्ट इत्यर्थः । स कः यो युवसतिभिर्देवैः वोक्षितः, किं
कुर्व्वन्, धरित्रीं रुन्धन् आवृण्वन् पुनः किविशिष्टः असिश्यामघामा, असेरिव
श्यामं घाम यस्यासावसिश्यामधामा कैः कैरित्युत्प्रेक्षायामाह, किंभूतैर्देवैः
नाकौकोनायकाद्यैः नाके प्रोकांसि येषां ते नाकौकसः, तेषां नायक इन्द्रः स आद्यो
येषां ते तथा तैः, पुनः किंभूतैः वृद्धिष्णुविन्ध्याचलचकित मनोवृत्तिभिः, वर्द्धते
इत्येवं शीलो वर्द्धिष्णुः, वर्द्धिष्णुश्चासौ विन्ध्याचलश्च वर्द्धिष्णुविन्ध्याचलः,
वद्धष्णुविन्ध्याचलेन चकिता मनोवृत्तिर्येषां ते तथा तैः उपमागर्भ विशेषणम् ।
यथा पूर्ध्वं सूर्यवत्मनिरोधार्थं वर्द्धमाने विन्ध्याद्रौ देवान् भयमाविशत् तथैवाऽयं
भूमण्डलं मारयिष्यतीति त्रस्तमनस्कैरित्यर्थः ॥१७॥
 
५६ ]
 
सं० व्या० – १७. सा उमा गौरी वो युष्माकं श्रियै विभूत्यै स्तात् भवतु,
स्तादिति तु 'ह्योस्तातङाशिषि चेति तातङादेशः, यस्याः उमायाः पादोत्पिष्ट:
पादेन चूर्णितो वतुं लीकृत: अपकृतोऽपि लघुतामापन्न: स महिषः सुररिपुः लेभे
लब्धवान्, महिषश्चासो सुररिपुश्चेति विग्रहः, कां लेभे लोलेन्द्रनीलोपलशकलतुलां
इन्द्रनीलश्चासो उपलश्च इन्द्रनीलोपलस्तस्य शकलं भित्तं इन्द्रनीलोपलशकलं
लोलं च तत् इन्द्रनीलोपलशकलं च तस्य तुलां तुल्यतां लेभे इत्यर्थ: किंभूतो
महिषो नूपुरान्तावलम्बी, नूपुरस्यान्तो मध्यं तदवलम्बितु शीलमस्येति नूपुरान्ताः-
वलम्बी नूपुरमध्यगत इत्यर्थ: । किंविशिष्टः, वीक्षितः अवलोकित:, कि कुर्वन्
रुन्धन् आवृण्वन् विपुलत्वेन, घात्रीं घरित्रों, कैः दृष्टो, धुवसतिभिः द्यौः
स्वर्गो निवासो वसतिर्येषामिति विग्रहः, नाकौकसो देवास्तेषां नायक इन्द्रः स
आद्य आदिमो येषां तैस्तथोक्त: । किंभूतो महिषः असिश्यामधामा असिरिव
श्यामं धाम यस्य सः तथोक्तः, य एवंविधः अत एवोक्त वद्धिष्णुविन्ध्याचलचकित-
मनोवृत्तिभिर्वीक्षितः इति, वर्द्धनशीलः वर्द्धिष्णुश्चासौ विन्ध्याचलश्च तत्र चकितं
शङ्कितं यन्मनस्तत्रवृत्तिवत्र्त्तनं येषां तैः तथोक्त: ध्रुवसतिभिरिति ॥१७॥
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy