2023-03-27 21:20:57 by manu_css
This page has been fully proofread once and needs a second look.
इदानीं पुनरपि वाक्छलेनाह--
जाता किं ते हरे भीर्भवति महिषतो भीरवश्यं हरीणा-
मद्येन्दो द्वौ कलङ्कौ त्यजसि जलनिधे[^१] धैर्यमालोक्य चन्द्रम् ।
वायो कम्प्यस्त्वयाऽन्यो यम नय[^२] महिषादात्मयुग्यं ययाऽरौ
पिष्टे नष्टं जहास द्यु जनमिति जया साऽस्तु चण्डी[^३] श्रिये वः ॥१५॥
कुं० वृ०--सा चण्डी वो युष्माकं श्रियेऽस्तु भवतु यया चण्याचनऽरौ पिष्टे
सति जया देवीसखी द्युजनं देवलोकवासिनं इन्द्राद्यं इति जहास हासं चकार ।
किंविशिष्टं द्युजनं नष्टं पलायितं इतीति किं, हे हरे ! इन्द्र ! ते तव भीर्भयं किं
जाता मत्सख्यां सत्यां(21a) कथं महिषादबिभः, इति पृष्ट्वा हरिशब्दच्छलेन स्वय-
मेवाऽऽहं अथ च स्वभावोऽयं त्वया नामसदृशमाचरितं, यतो हरीणां अश्वानां महिषात्
भयं भवत्येव । एवं हरिं उक्त्वा इन्दुं आह, हे इन्दो ! अद्य तव द्वौ कलङ्कौ जातौ,
एकेनाऽपि कलङ्किनं त्वां वदन्ति अलं अपरेण पलायनभयेनेति, द्वितीयस्त्वयि
क्वाऽवकाशं आप्स्यतीति, इति इन्दुमुपहस्य वरुणमाह, हे जलनिधे ! त्वं चन्द्रं
आलोक्य धैर्यं त्यजसि त्वं अपि धैर्यं त्यजन् दृश्यसे तर्हि कि पलायितं, चन्द्रं
दृष्ट्वा त्यजसि, यस्य खलु पुत्रः पलाय्य गच्छति स धैर्यं त्यजत्येव; अथवा,
इन्दु-दर्शनात् समुद्रो मर्यादां मुञ्चतीति, स्वभावोऽयम् । अथ जलनिधिशब्देन
लक्षणया वरुण उच्यते, जलनिधिशब्दः स्वार्थे बाधितशक्तिः सन्, वरुणस्य
युद्धेऽधिकारात्, तत्सिद्य्िर्थं जलनिधिशब्दः स्वार्थं वरुणे समयति(ते) । तत्र चन्द्रं
पलायितं दृष्ट्वा तद्गताऽनुगतिकत्वेन वरुणस्याऽपि भीरभूदित्यर्थः । अथवा,
जलनिधि: मूषसहायो भवति स शूरवृत्तिं अपि त्यक्त्वा पलायते एवेति
भावः । इतो वायुमाह, हे वायो ! त्वयाऽन्यः कम्प्य: कम्पनीयः, परं कम्पयतीति
कम्पन इति निरुक्तः, ततः किं त्वं कम्पसे, प्रतिविपर्ययेन साधीयानिति । अथ वाति
गच्छतीति वायुत्वमेव युक्तं अङ्गीकरोषि; इदानीं यममाह, हे यम ! महिषात्
आत्मयुग्यं नय प्रदेशान्तरं प्रापय इति प्रदेशान्तराऽऽध्याहारेण व्याख्यानं । अथ
हे यम ! इति अकार-प्रश्लेषात् त्वं अन्यान् नियन्तुं क्षमः साम्प्रतं श्रात्मयुग्यमपि
नियन्तु न शक्नोषि यतस्त्वं रणादपनीयसे ॥१५॥
-------------
[^१] ज० का० त्यजति पतिरपां ।
[^२] ज० का० नय यम ।
[^३] ज० का० देवी ।