This page has not been fully proofread.

पद्याङ्क १५ व्याख्या ]
 
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
इदानीं पुनरपि वाक्छलेनाह-
जाता किं ते हरे भीर्भवति महिषतो भीरवश्यं हरीणा-
मद्येन्दो द्वौ कलङ्कौ त्यजसि जलनिधे' धैर्यमालोक्य चन्द्रम् ।
वायो कम्प्यस्त्वयाऽन्यो यम नय' महिषादात्मयुग्यं ययाऽरौ
पिष्टे नष्टं जहास द्यु जनमिति जया साऽस्तु चण्डी' श्रिये वः ॥ १५॥
 
3
 
कु० वृ० - सा चण्डी वो युष्माकं श्रियेऽस्तु भवतु यया चण्ड्याडरौ पिष्टे
सति जया देवीसखी द्युजनं देवलोकवासिनं इन्द्राद्यं इति जहास हासं चकार ।
किंविशिष्टं घुजनं नष्टं पलायितं इतीति कि, हे हरे ! इन्द्र ! ते तव भोर्भयं कि
जाता मत्सख्यां सत्यां (212) कथं महिषादबिभः, इति पृष्ट्वा हरिशब्दच्छलेन स्वय-
मेवाऽऽह अथ च स्वभावोऽयं त्वया नामसदृशमाचरितं, यतो हरीणां अश्वानां महिषात्
भयं भवत्येव । एवं हरि उक्त्वा इन्दु ग्रह, हे इन्दो ! अद्य तव द्वौ कलङ्की जाती,
एकेनापि कलङ्किनं त्वां वदन्ति अलं अपरेण पलायनभयेनेति, द्वितीयस्त्वयि
क्वाऽवकाशं आप्स्यतीति, इति इन्दुमुपहस्य वरुणमाह, हे जलनिये ! त्वं चन्द्रं
लोक्य धैर्य त्यजसि त्त्वं अपि धैर्य त्यजन् दृश्यसे तर्हि कि पलायितं, चन्द्र
दृष्ट्वा त्यजसि, यस्य खलु पुत्रः पलाय्य गच्छति स धैर्यं त्यजत्येव; अथवा,
इन्दु-दर्शनात् समुद्रो मर्यादां मुञ्चतीति, स्वभावोऽयम् । ग्रथ जलनिधिशब्देन
लक्षणया वरुणं उच्यते, जलनिधिशब्दः स्वार्थे बाधितशक्तिः सन्, वरुणस्य
युद्धेऽधिकारात्, तत्सिद्धयर्थं जलनिधिशब्दः स्वार्थ वरुणे समयति ( ते ) । तत्र चन्द्रं
पलायितं दृष्ट्वा तद्गताऽनुगतिकत्वेन वरुणस्यापि भीरभूदित्यर्थः । अथवा,
जलनिधिः मूषसहायो भवति स शूरवृत्ति अपि त्यक्त्वा पलायते एवेति
भावः । इतो वायुमाह, हे वायो ! त्वयाऽन्यः कम्प्यः कम्पनीयः, परं कम्पयतीति
कम्पन इति निरुक्तः, ततः किं त्वं कम्पसे, प्रतिविपर्ययेन साधीयानिति । अथ वाति
गच्छतीति वायुत्वमेव युक्त अङ्गीकरोषि; इदानीं यममाह, हे यम ! महिषात्
श्रात्मयुग्यं नय प्रदेशान्तरं प्रापय इति प्रदेशान्तराऽऽध्याहारेण व्याख्यानं । अथ
हे यम ! इति प्रकार - प्रश्लेषात् त्वं अन्यान् नियन्तु क्षमः साम्प्रतं आत्मयुग्यमपि
नियन्तु न शक्नाषि यतस्त्वं रणादपनीयसे ।॥ १५ ॥
 
१. ज० का० त्यजति पतिरपां ।
 
२. ज० का० नय यम ।
 
३. ज० का० देवी ।
 
T
 
[ ५३
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy