छन्दोऽनुशासनम् /133
This page has not been fully proofread.
द्वितीयोऽध्यायः ।
म्भॏ न्यौ रौ केसरम् ॥ ३०६ ॥
मभनयरराः । घछैरिति वर्तते । यथा -
¹सारंगाणां न कुलमिह न वा यूथं ²महादंष्ट्रिणां,
कर्णातिथ्यं न च भजति कटुर्गन्धद्विपानां ध्वनिः ।
तत्किं दिक्षु क्षिपसि रभसया नेत्रे त्वमुद्यत्करो,
यद्वा ज्ञातं विधुवति पवनस्त्वत्केसरं³ केसरिन् । ३०६.१ ॥
नौ मौ यौ चन्द्रमाला छघैः ॥ ३०७ ॥
ननममययाः छघैरिति सप्तभिश्चतुर्भिश्च यतिः । यथा-
⁴सरसि¹ सरसिजं तद्वाकाशे पार्वणं चन्द्रबिम्बं,
कुवलयनयने तावत्साम्यं नाभजत्त्वन्मुखस्य ।
5जनयतु कनकाम्भोजश्रेणीर्लक्षशः स्वर्गसिन्धुर्-,
घटयतु यदि वा सोऽपि स्रष्टा कोटिशश्चन्द्रमालाः ॥ ३०७.१ ॥
नौ म्तौ भ्रौ ललितम् ॥ ३०८ ॥
ननमतभराः । छघैरिति वर्तते । यथा -
6परममुपशमं वर्मीकृत्य स्थितेऽत्र महामुनौ,
प्रहरणमपरं दध्याः किंचिन्निशातमतीव यत् ।
पशुपतिविजयं स्मारं स्मारं पराक्रमगर्वितः³,
कलयसि ललितं पौष्पं शस्त्रं मनोभव किं मुधा ॥ ३०८.१ ॥
भ्रनिसा भ्रमरपदं झैः ॥ ३०९ ॥
भरौ नगणत्रयं सश्च । झैरिति नवभिर्यतिः । यथा-
वारिदमुक्तवारिभरपरिशमितघनरजा,
उद्गतरोहिणीशकरधवलितसकलककुप् ।
कस्य धृतिं ददाति न हि शरदृतुरजनिरियं,
चुम्बनलालसभ्रमरपदविदलितकुमुदा ॥ ३०९.१ ॥
म्सौ ज्सौ त्सौ शार्दूलललितं ठैः ॥ ३१० ॥
मसजसतसाः । ठैरिति द्वादशभिर्यतिः । यथा -
1 ) सारंगाणामित्यत्र हरिणानां वृन्दम् । 2 ) महेति - वराहादीनाम् । 3 ) त्वत्स्कन्धकेशम् । 4 ) सरसि
सरे[त्यत्र] पर्वणि भवं पार्वणं राकाजातम् । 5 ) आदौ जनयत्विति - तदेत्यध्याहारो विधेयः । स्वर्गेति - गङ्गा ।
स्रष्टेति - ब्रह्मा । 6 ) परममुपेत्यत्र संनाहीकृत्य । निशातं तीक्ष्णम् । ईश्वरविजयं स्मृत्वा स्मृत्वा ।
.
१ सरसि dropped in A. २ तीक्ष्णं C.
३ गर्वित N.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org