This page has been fully proofread once and needs a second look.

VI. VARIA
 
उन्मत्तानां भुजङ्गानां मद्यपानां च दन्तिनाम् ।
स्त्रीणां राजकुलानां च विश्वसन्ति गतायुषः ॥ २६९ ॥
शास्त्रं सुचिन्तितमपि प्रतिचिन्तनीयम्
आराधितोऽपि नृपतिः परिशङ्कनीयः ।
अङ्के स्थितापि युवतिः परिरक्षणीया
शास्त्रे नृपे च युवतौ वशतावसन्ना ॥ २७० ॥
अग्निरापः स्त्रियो मूर्खा: सर्पा राजकुलानि च ।
नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट् ॥ १७१ ॥