This page has been fully proofread once and needs a second look.



CĀŅAKYA-RĀJA-NĪTI
 
एतदर्थं हि सौमित्रे राज्यमिच्छन्ति भूभृतः ।
यदेषां सर्वकार्येषु वचो न प्रतिहन्यते ॥ २४७ ॥
यच्छक्तावप्युपेक्षन्ते कदाचित् तत्र कारणम् ।
समूलकाषं कषितुमुपायोऽसौ न मूढता ॥ २४८ ॥
आज्ञामात्रफलं राज्यं ब्रह्मचर्यफलं तपः ।
ज्ञानमात्रफला विद्या दत्तभुक्तफलं धनम् ॥ २४९ ॥
अवंशपतितो राजा मूर्खपुत्रश्च पण्डितः ।
अधनेन धनं प्राप्य तृणवन्मन्यते जगत् ॥ २५० ॥