This page has been fully proofread once and needs a second look.

IV. KING's OFFICIALS
 
तस्माद् भूमीश्वरो नित्यं धर्मकामार्थवृद्धये ।
गुणवन्तं नियुञ्जीत गुणहीनं विवर्जयेत् ॥ २१० ॥
दम्भाश्रितान् कपटिनो हिंस्रानुत्साहवर्जितान् ।
अशक्तान् भयभीतांश्च राजा भृत्यान् विवर्जयेत् ॥ २११ ॥
क्षान्तिभक्तिविहीनश्च विपक्षो धनलोलुपः ।
अशक्तो भयभीतश्च राज्ञा त्यक्तव्य एवं सः ॥ २१२ ॥
क्रूरं व्यसनिनं लुब्धमप्रगल्भं सदार्जवम् ।
अनायं व्ययकार्तारं नाधिपत्ये नियोजयेत् ॥ २१३ ॥