This page has been fully proofread once and needs a second look.

134
 
CĀŅAKYA-RĀJA-NĪTI
 

 
अप्रधानः प्रधानः स्याद् यदि सेवेत पार्थिवम् ।

प्रधानोऽप्यप्रधानः स्याद् यदि सेवाविवर्जितः ॥ १६९ ॥

वाणिज्ये वसते लक्ष्मीस्तदर्धेधं कृषिकर्मणि ।
 

तदर्धं राजसेवायां भिक्षायां नैव नैव च ॥ १७० ॥ '

प्रथमे कृषिवाणिज्यं द्वितीये चाश्वपोषणम् ।

तृतीये क्रयविक्रयौ चतुर्थे राजसेवनम् ॥ १७१ ॥

देवताः पूजयेद् भक्त्या भृत्यान् दानेन पूजयेत् ।

उपकारेण शूद्रं च विमंप्रं प्रणतिवन्दनात् ॥ १७२ ॥

मन्त्रिवर्गस्य सारोऽयं दृशि नित्यं प्रसन्नता ।

मुखे वहति माधुर्यं हृदये कार्यनिश्च​यम् ॥ १७३ ॥
 
169. CvL I 8.45.
 
Also in PP_1.17, Pts 1.134, PtsK 1.40, Sts 21.9, IS 465...
 
(b) पार्थिवं यदि सेवते Pañc.
(d) भुपतिवर्जित: L in Sts.
 
170. CNPN 94.
 
Also in IS 6034, TP 460.
 
171. CNP II 3.
 
Also in CM 114.
 
172. CS 1.91.
 
Also in CKI 41.
 
(a) देवतां CSBD.
 
(c) शूद्र: पूज्योपचारेण CSLd, CSC I.
 
(d) विप्राणामभिवन्दनम् CSB I, CSC I, CSJ; अभिमन्त्रणम् CSB I
 
173. CR 5.27. Also CPS 114.17.
 
(a) वर्गेषु CRC, CPS.
 
(b) पश्य [ह°] CRBh II; नित्यप्र° CPS.
 
(c) वदति CRBh I.