This page has not been fully proofread.

92
 
CĀNAKYA-RĀJA-NITI
 
रूपं वश्यैर्बलं भृत्यैरुत्तमं मानमर्थिभिः ।
महाकुलविवाहैश्च कुलं क्रीणाति वित्तवान् ॥ ५२ ॥
वित्तायत्ता: सदा धर्मा वित्तं कामनिबन्धनम् ।
वित्तायत्तानि सर्वाणि वित्तं जीवितवर्धनम् ॥ ५३ ॥
धनं रूपमवैव्यं धनं कुलं सुमङ्गलम् ।
धनं यौवनमम्लानं धनमायुर्निरामयम् ॥ ५४ ॥
गुणा धनेन लभ्यन्ते न धनं लभ्यते गुणैः ।
 
धनी गुणवतां सेव्यो न गुणी धनिनां क्वचित् ॥ ५५ ॥
वृद्धः प्रसिद्धो विबुधो विदग्धः
 
शूरः श्रुतिज्ञः कवयः कुलीनाः ।
विलोकयन्तः सधनस्य वक्त्रं
 
जयेति जीवेति सदा वदन्ति ॥ ५६ ॥
स्वगृहेऽपि दरिद्राणां विचक्रुः कचकर्कशम् ।
 
धनिनां परलोकेऽपि प्रेम्णः स्रिग्धजना भुवः ॥ ५७ ॥
 
52. CRC 4.15. Also CPS 92.27.
 
53. CRC 4.16. Also CPS 92.28.
 
(c) वित्तानि [स°] CRC.
 
54. CRC 4.17. Also CPS 93.29.
 
55. CRC 4.18.
 
Also CPS 93.30.
56. CRC 4.20. Also CPS 94.32.
 
Indravajrā and Upendravajrā metre.
57. CRC 4.22. Also CPS 94.34.