Proofing

This page has not been fully proofread.

८५४
 
बृहत्स्तोत्ररत्नाकरे
 
[ शान्तिपाठः
याणि च । सर्वाणि सर्व ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा
ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मे अस्तु । तदात्मनि निरते
य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ २ ॥ ॐ पूर्ण-
मदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवाव-
शिष्यते ॥ ३ ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्ष-
भिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः
॥ ४ ॥ ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न
इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे ।
नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म
वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु ।
तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ॥ ५ ॥
 
ॐ शांतिः शांतिः शांतिः ॥
 
इति शांतिपाठः संपूर्णः ॥
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)