2026-05-10 23:36:52 by ambuda-bot
This page has not been fully proofread.
शान्तिपाठः ]
संकीर्णस्तोत्राणि
८५३
नयनेनापि सनाथयेद्विभुः ॥ ५४ ॥ प्रणिपत्य हरे भवन्तमद्धा
विनिबद्धाञ्जलिरेकमेव याचे । जनुरस्तु कुले कृषीवलानामपि
गोविन्दपदारविन्दभावः ॥ ५५ ॥ वाचा निर्मलया सुधामधुरया
यां नाथ शिक्षामदास्तां स्वप्नेऽपि न संस्मराम्यहम हंभावावृतो
निस्रपः । इत्यागःशतशालिनं पुनरपि स्वीयेषु मा बिभ्रतस्त्वत्तो
नास्ति दयानिधिर्यदुपते मत्तो न मत्तः परः ॥ ५६ ॥ पातालं
व्रज याहि वा सुरपुरीमारोह मेरोः शिरः पारावारपरम्परां तर
तथाप्याशा न शान्ता तव । आधिव्याधिजरापराहत यदि क्षेमं
निजं वाञ्छसि श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यैः श्रमैः
॥ ५७ ॥ वज्रं पापमहीभृतां भवगदोद्रेकस्य सिद्धौषधं मिथ्या-
ज्ञाननिशाविशालतमसस्तिग्मांशुबिम्बोदयः । क्रूरक्केशमहीरुहा-
मुरुतरज्वालाजटालः शिखी द्वारं निर्वृतिसद्मनो विजयते कृष्णेति
वर्णद्वयम् ॥ ५८ ॥ विशालविषयाटवीवलयलग्नदावानलप्रसृत्वर-
शिखावलीविकलितं मदीयं मनः । अमन्दमिलदिन्दिरे निखिल-
माधुरीमन्दिरे मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम् ॥ ५९ ॥
सुरस्रोतस्विन्याः पुलिनमधितिष्ठन्नयनयोर्विधायान्तर्मुद्रामथ सपदि
विद्राव्य विषयान् । विधूतान्तर्ध्वान्तो मधुरमधुरायां चिति कदा
निमग्नः स्यां कस्यांचन नवनभस्याम्बुदरुचि ॥ ६० ॥ इति
पण्डितराजश्रीजगन्नाथविरचिता करुणालहरी संपूर्णा ॥
४४५. शान्तिपाठः ।
ॐ यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ।
तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ १ ॥
ॐ आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रि-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)