Proofing

This page has not been fully proofread.

करुणालहरी ]
 
संकीर्णस्तोत्राणि
 
८५१
 
ऽपसारय ॥ २८ ॥ यदि वीक्ष्य ददासि मत्कृतिं न मयैव प्रतिगृह्य
तदा । अथ चेन्निजमाशयं प्रभो परितुष्टः शिरसा वहामि तत्
॥ २९ ॥ पतितोऽप्यतिदुर्गतोऽपि सन्नकृतज्ञो निखिलागसां पदम् ।
भवदीय इतीरयंस्त्वया दयनीयस्त्रपयैव केवलम् ॥ ३० ॥ सुकृत-
प्रकृता जने त्वया कृतया किं कृपया कृपानिधे । यदि मादृशि सा
विधीयते तव कीर्तिर्वद कीदृशी तदा ॥ ३१ ॥ अयि शैशव-
लालितः शिशुः प्रतिबुद्धो जनकेन ताड्यते । न कदापि च
लालितस्त्वया किमु ताढ्यो भगवन्कुकर्मभिः ॥ ३२ ॥ अहमेव
हि दोषदूषितो भगवंस्त्वां समुपालमे मुधा । रमणीविरहज्वर-
ज्वलन्नमृतांशुं कुमतिर्विनिन्दति ॥ ३३ ॥ करुणाकर दुर्दशाकुलं
पतितालम्बन पापपञ्जरम् । अमृताम्बुनिधे महाज्वरं नहि जह्या
जगदीश जातु माम् ॥ ३४ ॥ कटुजल्पनमल्पकस्य मे नहि ते
कल्पयतु क्रुधं विभो । कुपितातुरबालभाषितं किमु गृह्णन्ति
मनाङ्महाशयाः ॥ ३५ ॥ भुजगाहितकल्पितध्वजं स्फुरदाशा-
भुजगालिबेल्लितम् । जटिलज्वरकुञ्जराङ्कुश ज्वरजुष्टं न जहीहि
जातु माम् ॥ ३६ ॥ न वदामि न दुष्कृतं मया कृतमित्युक्तिमिमां
मे शृणु । मम भीतिमनीनशद्विभो पतितोद्धारक नाम तावकम्
॥ ३७ ॥ अपि शर्वपितामहादिभिर्भजनीयः पुरुषोत्तमो हि यः ।
तमुपालभमानमुद्धृतं धिगिमं मां धिगिमां धियं मम ॥ ३८ ॥
अथ सर्वमिदं मयोज्झितं भवतोऽन्यन्नहि किंचिदर्थये । मम मानस-
गोचरीभवत्वरविन्दाक्ष तवाद्भुतं वपुः ॥ ३९ ॥ हरिनीलमया-
वनीतले वरवृन्दाविपिने विलासिनि । मणिमण्डपमध्यविस्फुर-
द्विबुधक्ष्मारुहमूलमाश्रितम् ॥ ४० ॥ शिखिपिच्छमहामणिस्फुर-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)
 
तु