2026-05-10 23:36:51 by ambuda-bot
This page has not been fully proofread.
करुणालहरी ]
संकीर्णस्तोत्राणि
८४९
त्वयि गाढमीहते ॥ ३ ॥ त्वदङ्घ्रिफुल्लाम्बुजमध्यनिर्गलन्मरन्द-
निःस्यन्दनितान्तलम्पटः । मनोमिलिन्दो मम मुक्तचापलस्त्वदन्य-
मीशान तृणाय मन्यते ॥ ४ ॥ जगत्रयत्राणविधौ धृतव्रतं तवाहि-
राजीवमपास्य ये जनाः । शरण्यमन्यन्मृगयन्ति यान्ति ते
नितान्तमीशान कृतान्तदेहलीम् ॥ ५ ॥ रमामुखाम्भोज विकासन-
क्षमो जगत्रयोद्बोधविधानदीक्षितः । कदा मदज्ञानविभावरीं हरे
हरिष्यति त्वन्नयनारुणोदयः ॥ ६ ॥ सुरासुरस्वान्तच कोरचुम्बिता
समस्तसंतापचयापनोदिनी । महानिशीथे मम मानसे कदा
स्फुरिष्यति त्वन्मुखचन्द्रचन्द्रिका ॥ ७ ॥ सुयौवनापाण्डुरगण्ड-
मण्डलप्रतिस्फुरत्कुण्डलताण्डवाद्भुतम् । गदाग्रज त्वन्मुखफुल्ल-
पङ्कजं कदा मदक्ष्णोरतिथी भविष्यति ॥ ८ ॥ सुरापगातुङ्गतरङ्ग-
चालितां सुरासुरानीकललाटलालिताम् । कदा दधे देव दया-
मृतोदधे भवत्पदाम्भोरुहधूलिधोरणीम् ॥ ९ ॥ महाजवाश्छिन्न-
विवेकरइमयो मदोद्धता देव मदक्षवाजिनः । हरे समासाद्य
तवाङ्घ्रिमन्दुरामपास्तवेगा दधतां सुशीलताम् ॥ १० ॥ पुरातनानां
वचसामगोचरं महेशितारं पुरुषोत्तमं पतिम् । अपास्य तं त्वां
निरपत्रपा सती सती मतिर्मे कथमन्यमेष्यति ॥ ११ ॥ न जाग्रता
स्वप्नगतेन वा मया समीहितं ते करुणालवाद्यते । गिरं मदीयां यदि
वेत्सि तात्त्विकीं तदा जगन्नायक मामुरीकुरु ॥ १२ ॥ अयि
दीनतरं दयानिधे दुरवस्थं सकलैः समुज्झितम् । अधुनापि न मां
निभालयन् भजसे हा कथमश्मचित्तताम् ॥ १३ ॥ सुमहान्ति
जगन्ति बिभ्रतस्तव यो नाविरभून्मनागपि । स कथं परमाप्त-
देहिनां परमाणोर्मम धारणे श्रमः ॥ १४ ॥ नितरां विनयेन पृच्छते
सुविचार्योत्तरमत्र यच्छ मे । करितो गिरितोऽप्यहं गुरुस्त्वरितो
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)