2026-05-10 23:36:50 by ambuda-bot
This page has not been fully proofread.
८४८
बृहत्स्तोत्ररत्नाकरे
[ करुणालहरी
धृतान्त्रस्रग्विभिन्नारिवक्षो दह दह नरसिंहा सह्यवीर्याहितं मे
॥ १६॥ चट चट चट दूरं मोहय भ्रामयारीन् कडि कडि कडि कामं
ज्वालय स्फोटयस्व । जहि जहि जहि वेगं शात्रवं सानुबन्धं दह
दह नरसिंहा सह्यवीर्याहितं मे ॥ १७ ॥ विधिभवविबुधेश-
भ्रामकाग्निस्फुलिंगप्रसविविकटदंष्ट्रोजिह्ववक्त्र त्रिनेत्र । कल कल
कल कामं पाहि मां ते सुभक्तं दह दह नरसिंहासह्यवीर्याहितं मे
॥ १८ ॥ कुरु कुरु करुणांतां सांकुरां दैत्यपोते दिश दिश विशदां
मे शाश्वतीं देव दृष्टिम् । जय जय जय मूर्तेऽनार्त जेतव्यपक्षं
दह दह नरसिंहासह्यवीर्याहितं मे ॥ १९ ॥ स्तुतिरियमहितघ्नी
सेविता नारसिंही तनुरिव परिशान्ता मालिनी साभितोऽलम् ।
तदखिल गुरुमाध्यश्री दरूपा लसद्भिः सुनियमनयकृत्यैः सद्गुणैर्नित्य-
युक्ता ॥ २० ॥ लिकुचतिलकसूनुः सद्धितार्थानुसारी नरहरि -
नुतिमेतां शत्रुसंहारहेतुम् । अकृत सकलपापध्वंसिनीं यः पठेत्तां
व्रजति नृहरिलोकं कामलोभाद्यसक्तः ॥ २१ ॥ इति श्रीमत्कवि-
कुलतिलक-त्रिविक्रमपंडिताचार्यसुत-श्रीमन्नारायणपंडिताचार्यकृता
- श्रीनृसिंहस्तुतिः संपूर्णा ॥
४४४. करुणालहरी ।
श्रीगणेशाय नमः ॥ विषीदता नाथ विषानलोपमे विषादभूमौ
भवसागरे विभो । परं प्रतीकारमपश्यताधुना मयायमात्मा भवते
निवेदितः ॥ १ ॥ भवानलज्वालविलुप्तचेतनः शरण्य तेडा शरणं
भयादयाम् । विभाव्य भूयोऽपि दयासुधाम्बुधे विधेहि मे नाथ
यथा यथेच्छसि ॥ २ ॥ विहाय संसारमहामरुस्थली मलीक देहादि-
मिलन्मरीचिकाम् । मनोमृगो मे करुणामृताम्बुधे विगाढुमीश
MPL Sastry Library. Free Digitisation indoscripts.org (ISRT)