2026-05-10 23:36:50 by ambuda-bot
This page has not been fully proofread.
८४६
बृहत्स्तोत्ररत्नाकरे
[ नृसिंह स्तुतिः
क्षणौ । ब्रह्म दृश्यं मायेति सर्ववेदान्तडिण्डिमः ॥ १७ ॥ महं
साक्षीति यो विद्याद्विविच्यैवं पुनः पुनः । स एव मुक्तः सो विद्वा-
निति वेदान्तडिण्डिमः ॥ १८ ॥ घटकुड्यादिकं सर्वं मृत्तिकामात्र-
मेव च । तद्वद्ब्रह्म जगत्सर्वमिति वेदान्तडिण्डिमः ॥ १९ ॥ ब्रह्म
सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः । अनेन वेद्यं सच्छास्त्रमिति
वेदान्तडिण्डिमः ॥ २० ॥ अन्तज्योतिर्बहिज्र्ज्योतिः प्रत्यग्ज्योतिः
परात्परः । ज्योतिर्ज्योतिः स्वयंज्योतिरात्मज्योतिः शिवोऽस्म्यहम्
॥ २१ ॥ इति ब्रह्मज्ञानावलीमालास्तोत्रं संपूर्णम् ॥
४४३. नृसिंहस्तुतिः ।
श्रीगणेशाय नमः ॥ प्रलयरविकरालाकाररुक्चक्रवालं विरलय-
दुरुरोचीरोचिताशान्तराल । प्रतिभयतमकोपात्युत्कटोच्चाट्टहासिन्
दह दह नरसिंहा सह्यवीर्याहितं मे ॥ १ ॥ सरसरभसपादापात-
भाराभिरावप्रचकितचलसप्तद्वन्द्वलोकस्तुतस्त्वम् । रिपुरुधिरनिषेके-
णैव शोणांघ्रिशालिन् दह दह नरसिंहा सह्यवीर्याहितं मे ॥ २ ॥
तव घनघनघोषो घोरमाघ्राय जंघापरिघमलघुमूरुव्याजतेजोगिरिं
च । घनविघटितमागाद्दैत्यजंघालसंघो दह दह नरसिंहासह्यवीर्या-
हितं मे ॥ ३ ॥ कटकिकटकराजद्घाटकाग्रयस्थलाभा प्रकटपटत-
टित्ते सत्कटिस्थातिपदी । कटुककटुकदुष्टाटोपदृष्टिप्रमुष्टौ दह
दह नरसिंहासह्यवीर्याहितं मे ॥ ४ ॥ प्रखरनखरवज्रोत्खात-
रूक्षादिवक्षः शिखरिशिखरर तैराक्तसन्दोह देह । सुवषलिभशुभ-
कुक्षे भद्रगम्भीरनाभे दह दह नरसिंहासह्यवीर्याहितं मे ॥ ५ ॥
स्फुरयति तव साक्षात्सैव नक्षत्रमाला क्षपितदितिजवक्षोव्याप्तनक्षत्र-
मार्गम् । अरिदरधर जान्वासक्तहस्तद्वयाहो दह दह नरसिंहा-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)