2026-05-10 23:36:50 by ambuda-bot
This page has not been fully proofread.
ब्रह्मज्ञानावलीमालास्तोत्रम् ] संकीर्णस्तोत्राणि
४४२. ब्रह्मज्ञानावलीमालास्तोत्रम् ।
८४५
श्रीगणेशाय नमः ॥ सकृच्छ्रवणमात्रेण ब्रह्मज्ञानं यतो भवेत् ।
ब्रह्मज्ञानावलीमाला सर्वेषां मोक्षसिद्धये ॥ १ ॥ असंगोऽहमसंगो-
seमसंगोऽहं पुनः पुनः । सच्चिदानन्दरूपोऽहमहमेवाहमव्ययः
॥ २ ॥ नित्यशुद्धविमुक्तोऽहं निराकारोऽहमव्ययः । भूमानन्दस्वरू-
पोऽहमहमेवाहमव्ययः ॥ ३ ॥ नित्योऽहं निरवद्योऽहं निराकारोऽह-
मच्युतः । परमानन्दरूपोऽहमहमेवाहमव्ययः ॥ ४ ॥ शुद्धचैतन्य-
रूपोऽहमात्मारामोऽहमेव च । अखण्डानन्दरूपोऽहमहमेवाहमव्ययः
॥ ५ ॥ प्रत्यक्चैतन्यरूपोऽहं शान्तोऽहं प्रकृतेः परः । शाश्वतानन्द-
रूपोऽहमहमेवाहमव्ययः ॥ ६ ॥ तत्त्वातीतः परात्माऽहं मध्यातीतः
परः शिवः । मायातीतः परं ज्योतिरहमेवाहमव्ययः ॥ ७ ॥ नाम•
रूपव्यतीतोऽहं चिदाकारोऽहमच्युतः । सुखबोधस्वरूपोऽहमह-
मेवाहमव्ययः ॥ ८ ॥ मायातत्कार्यदेहादि मम नास्त्येव सर्वदा ।
स्वप्रकाशैकरूपोऽहमहमेवाहमव्ययः ॥ ९ ॥ गुणत्रयव्यतीतोऽहं
ब्रह्मादीनां च साक्ष्यहम् । अनंतानन्दरूपोऽहमहमेवाहमव्ययः
॥ १० ॥ अन्तर्यामिस्वरूपोऽहं कूटस्थः सर्वगोऽस्म्यहम् । परमा-
त्मस्वरूपोऽहमहमेवाहमव्ययः ॥ ११ ॥ निष्कलोऽहं निष्क्रयोऽहं
सर्वात्माद्यः सनातनः । अपरोक्षस्वरूपोऽहमहमेवाहमव्ययः ॥ १२॥
द्वंद्वादिसाक्षिरूपोऽहमचलोऽहं सनातनः । सर्वसाक्षिस्वरूपोऽहमह-
मेवाहमव्ययः ॥ १३ ॥ प्रज्ञानघन एवाहं विज्ञानघन एव च ।
अकर्ताहमभोक्ताह महमेवाहमव्ययः ॥ १४ ॥ निराधारस्वरूपोऽहं
सर्वाधारोऽहमेव च । आप्तकामस्वरूपोऽहमहमेवाहमव्ययः ॥ १५॥
तापत्रय विनिर्मुक्तो देहत्रयविलक्षणः । अवस्थात्रय साक्ष्यस्मि चाह-
मेवाहमव्ययः ॥ १६ ॥ दृग्दृश्यौ द्वौ पदार्थों स्तः परस्परविल-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)