2026-05-10 23:36:50 by ambuda-bot
This page has not been fully proofread.
८४४
बृहत्स्तोत्ररत्नाकरे [ अश्विनीकुमारस्तोत्रम्
सुनसौ वैजयन्ती । शुक्लं वयन्तौ तरसा सुवेमावधिव्ययन्तावसितं
विवस्वतः ॥ २ ॥ ग्रस्तां सुपर्णस्य बलेन वर्तिकाममुञ्चतावश्विनौ
सौभगाय । तावत्सुवृत्तावनमन्तमाययावसत्तमा गा अरुणा उदा-
वहत् ॥ ३ ॥ षष्टिश्च गावस्त्रिशताश्च धेनव एकं वत्सं सुवते तं
दुहन्ति । नानागोष्ठा विहिता एकदोहनास्तावश्विनौ दुहतो धर्म-
मुक्थ्यम् ॥ ४ ॥ एकां नाभिं सप्तशता अराः श्रिताः प्रधिष्वन्या
विंशतिरर्पिता अराः । अनेमिचक्रं परिवर्ततेऽजरं मायाश्विनौ सम-
नक्ति चर्षणी ॥ ५ ॥ एकं चक्रं वर्तते द्वादशारं षण्णाभिमेकाक्षम-
मृतस्य धारणम् । यस्मिन्देवा अधिविश्वे विषक्तास्तावश्विनौ मुञ्चतो
मा विषीतनम् ॥ ६ ॥ अश्विनाविन्दुममृतं वृत्तभूयौ तिरोधत्ता-
मश्विनौ दासपती । हित्वा गिरिमश्विनौ गामुदाचरन्तौ तद्दृष्टि-
मह्नाव्यथितौ बलस्य ॥ ७ ॥ युवां दिशौ जनययो दशाग्रे सवानं
मूर्ध्नि रथयानं वियन्ति । तासां यातमृषयोऽनुप्रयान्ति देवा
मनुष्याः क्षितिमाचरन्ति ॥ ८ ॥ युवां वर्णान्विकुरुथो विश्वरूपां-
स्तेऽधिक्षियन्ते भुवनानि विश्वा । ते भानवोऽप्यनुसृताश्चरन्ति देवा
मनुष्याः क्षितिमाचरन्ति ॥ ९ ॥ तौ नासत्यावश्विनौवां महे
स्रजं च यां बिभृथः पुष्करस्य । तौ नासत्यावमृतावृतावृधावृते
देयास्तव्यपदे न सूते ॥ १० ॥ मुखेन गर्भ लभतां युवानौ गता-
सुरेतव्यपदेन सुते । सद्यो जातो मातरमति गर्भस्तावश्विनौ मुञ्चतो
जीवसे गाम् ॥ ११ ॥ स्तोतुं न शक्नोमि गुणैर्भवन्तौ चक्षुर्विहीनः
पथि संप्रमोहः । दुर्गेऽहमस्मिन्पतितोऽस्मि कूपे युवां शरण्यौ
शरणं प्रपद्ये ॥ १२ ॥ इति श्रीमहाभारते आदिपर्वण्यश्विनी कुमार-
स्तोत्रं संपूर्णम् ॥
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)