2026-05-10 23:36:50 by ambuda-bot
This page has not been fully proofread.
अश्विनीकुमारस्तोत्रम् ] संकीर्णस्तोत्राणि
८४३
प्रेतादिजं भयम् ॥ ४३ ॥ मया कथितमेतत्तेऽमृतसंजीवनं
परम् । अल्पमृत्युहरं स्तोत्रं मृतवत्सत्त्वनाशनम् ॥ ४४ ॥ इति
सुदर्शनसंहितोत्तममृतसंजीवनस्तोत्रं संपूर्णम् ॥
४४०. बन्दीमोचनस्तोत्रम् ।
श्रीगणेशाय नमः ॥ ॐ अस्य श्रीबन्दीमोचनमन्त्रस्य कण्वऋषिः ।
त्रिष्टुप् छन्दः ॥ ह्रीं बीजम् ॥ हूं कीलकम् ॥ मम बन्दीमोचनार्थे
जपे विनियोगः ॥ 'ॐ ह्रीं हूं बन्दीदेव्यै नमः ' ॥ इत्यष्टोत्तरशतं जपः ॥
बन्दीं देवीं नमस्कृत्य वरदाभयशोभिताम् ॥ तदग्र्यां शरणं गच्छेत्
शीघ्रं मोक्षं ददातु मे ॥ १ ॥ बन्दी कमलपत्राक्षी लौहशृङ्खल-
भञ्जिनी । प्रसादं कुरु मे देवि शीघ्रं मोक्षं० ॥ २ ॥ त्वं बन्दी त्वं
महामाया त्वं दुर्गा त्वं सरस्वती । त्वं देवी रजनी चैव शीघ्रं मोक्षं०
॥ ३ ॥ संसारतारिणी बन्दी सर्वकामप्रदायिनी । सर्वलोकेश्वरी
देवी शीघ्रं मोक्षं० ॥ ४ ॥ त्वं हीस्त्वमीश्वरी देवी ब्रह्माणी ब्रह्म-
वादिनी ॥ त्वं वै कल्पक्षयं कर्त्री शीघ्रं मोक्षं० ॥ ५ ॥ देवी धात्री
धरित्री च धर्मशास्त्रार्थभाषिणी । दुश्वाम्बरागिणी देवी शीघ्रं मोक्षं०
॥ ६ ॥ नमोऽस्तु ते महालक्ष्मि रत्नकुण्डलभूषिते । शिवस्यार्धा-
ङ्गिनी चैव शीघ्रं मोक्षं० ॥ ७ ॥ नमस्कृत्य महादुर्गा भयादुत्ता-
रिणीं शिवाम् । महादुःखहरां चैव शीघ्रं मोक्षं० ॥ ८ ॥ इदं स्तोत्रं
महापुण्यं यः पठेन्नित्यमेव च । सर्वबन्धविनिर्मुक्तो मोक्षं स लभते
क्षणात् ॥ ९ ॥ इति श्रीरुद्रयामलोक्तं बन्दीमोचनस्तोत्रं संपूर्णम् ॥
४४१. अश्विनीकुमारस्तोत्रम् ।
श्रीगणेशाय नमः ॥ प्रपूर्वगौ पूर्वजौ चित्रभानू गिरा वां शंसामि
तपसा ह्यनन्तौ । दिव्यौ सुपर्णी विरजौ विमानावधिक्षिपन्तौ भुव-
नानि विश्वा ॥ १ ॥ हिरण्मयो शकुनी सांपरायौ नासत्यदत्रौ
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)