Proofing

This page has not been fully proofread.

८४२
 
बृहत्स्तोत्ररत्नाकरे [ अमृतसंजीवनस्तोत्रम्
 
रूपभाक् । सिञ्च० ॥ ३१ ॥ असाध्याः कष्टसाध्या ये महारोगा
भयङ्कराः । छिन्धि तानाशु चक्रेण चिरं जीवय जीवय ॥ ३२ ॥
अल्पमृत्युं चापमृत्युं महोत्पातानुपद्रवान् । भिन्धि भिन्धि गदा-
घातैश्विरं जीवय जीवय ॥ ३३ ॥ अहं न जाने किमपि त्वदन्य-
त्समाश्रये नाथ पदाम्बुजं ते । कुरुष्व तद्यन्मनसीप्सितं ते सुक-
र्मणा केन समक्षमीयाम् ॥ ३४ ॥ त्वमेव तातो जननी त्वमेव
त्वमेव नाथश्च त्वमेव बन्धुः । विद्याधनागारकुलं त्वमेव त्वमेव
सर्वं मम देवदेव ॥ ३५ ॥ न मेऽपराधं प्रविलोकय प्रभोऽपराध-
सिन्धोश्व दयानिधिस्त्वम् । तातेन दुष्टोऽपि सुतः सुरक्ष्यते
दयालुता तेऽवतु सर्वदाऽस्मान् ॥ ३६ ॥ अहह विस्मर नाथ न
मां सदा करुणया निजया परिपूरितः । भुवि भवान् यदि मे नहि
रक्षकः कथमहो मम जीवनमत्र वै ॥ ३७ ॥ दह दह कृपया त्वं
व्याधिजालं विशालं हर हर करवाल चाल्पमृत्यो करालम् ।
निजजनपरिपालं त्वां भजे भावयालं कुरु कुरु बहुकालं जीवितं
मे सदाऽलम् ॥ ३८ ॥ न यत्र धर्माचरणं न दानं व्रतं न यागो
न च विष्णुचर्चा । न पितृगोविप्रवरामराच स्वल्पायुषस्तत्र जना
भवन्ति ॥ ३९ ॥ क्लीं श्रीं क्लीं श्रीं नमो भगवते जनार्दनाय
सकलदुरितानि नाशय नाशय क्ष्रौमारोग्यं कुरु कुरु ह्रीं दीर्घ-
मायुर्देहि देहि स्वाहा ॥ अस्य धारणतो जापादल्पमृत्युः प्रशा-
म्यति । गर्भरक्षाकरं स्त्रीणां बालानां जीवनं परम् ॥ ४० ॥
शतं पञ्चाशतं शक्त्याथवा पञ्चाधिविंशतिम् । पुस्तकानां द्विजे-
भ्यस्तु दद्याद्दीर्घायुषाप्तये ॥ ४१ ॥ भूर्जपत्रे विलिख्येदं कण्ठे वा
बाहुमूलके । संधारयेद्गर्भरक्षा बालरक्षा च जायते ॥ ४२ ॥ सर्वे
रोगा विनश्यन्ति सर्वाबाधा प्रशाम्यति । कुदृष्टिजं भयं नश्येत्तथा
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)