2026-05-10 23:36:50 by ambuda-bot
This page has not been fully proofread.
अमृतसंजीवनस्तोत्रम् ] संकीर्णस्तोत्राणि
।
८४१
वाऽपि संयावेनाथ भक्तितः । दशांशमानतो होमं कुर्यात्सर्वार्थ-
सिद्धये ॥ १५ ॥ नमो नमो विश्वविभावनाय नमो नमो लोक-
सुखप्रदाय । नमो नमो विश्वसृजेश्वराय नमो नमो मुक्तिवरप्रदाय
॥ १६ ॥ नमो नमस्तेऽखिललोकपाय नमो नमस्तेऽखिलकामदाय ।
नमो नमस्तेऽखिलकारणाय नमो नमस्तेऽखिलरक्षकाय ॥ १७ ॥
नमो नमस्ते सकलार्तिहर्त्रे नमो नमस्ते विरुजप्रकर्त्रे । नमो
नमस्तेऽखिलविश्वधर्त्रे नमो नमस्तेऽखिललोकभर्त्रे ॥ १८ ॥ सृष्टं
देव चराचरं जगदिदं ब्रह्मस्वरूपेण ते सर्वं तत्परिपाल्यते जगदिदं
विष्णुस्वरूपेण ते । विश्व संहितये तदेव निखिलं रुद्रस्वरूपेण ते
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ १९ ॥ यो धन्व-
न्तरिसंज्ञया निगदितः क्षीराब्धितो निःसृतो हस्ताभ्यां जनजीवनाय
कलशं पीयूषपूर्ण दधत् । आयुर्वेदमरीरचज्जनरुजां नाशाय स त्वं
मुदा संसिच्या० ॥ २० ॥ स्त्रीरूपं वरभूषणांबरधरं त्रैलोक्यसंमोहनं
कृत्वा पाययति स्म यः सुरगणान्पीयूषमत्युत्तमम् । चक्रे दैत्य-
गणान्सुधाविरहितान् संमोह्य स त्वं मुदा संसिच्या० ॥ २१ ॥
चाक्षुषोदधिसंप्लावभूवेदपशषाकृते । सिञ्च सिञ्चामृतकणैश्चिरं जीवय
जीवय ॥ २२ ॥ पृष्ठमन्दर निघूर्णनिद्राक्षकमठाकृते । सिञ्च सिञ्च०
॥ २३ ॥ याच्चाछलबलिन्नासमुक्त निर्जरवामन । सिञ्च सिञ्च० ॥ २४ ॥
धरोद्धारहिरण्याक्षघातकोडाकृते प्रभो । सिञ्च सिञ्च० ॥२५॥ भक्त-
त्रासविनाशात्तचण्डत्वनृहरे विभो । सिञ्च सिञ्च० ॥ २६ ॥ क्षत्रिया-
रण्यसंछेदकुठारकर रैणुक । सिञ्च० ॥ २७ ॥ रक्षोराजप्रतापाब्धि-
शोषणाशुग राघव । सिञ्च० ॥ २८ ॥ भूभारासुरसंदोहकालाग्रे
रुक्मिणीपते । सिञ्च० ॥ २९ ॥ वेदमार्गरतानर्हविभ्रान्त्यै बुद्ध-
रूपधृक् । सिञ्च० ॥ ३० ॥ कलिवर्णाश्रमास्पष्टधर्मद्ध्यै कल्कि -
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)