Proofing

This page has not been fully proofread.

८३८
 
बृहत्स्तोत्ररत्नाकरे [ नृसिंहसरस्वतीस्तोत्रम्
 
मृगक्रीडावनं पावनम् । संसारावटमन्नमुद्धरसि भो स्वीकृत्य तुर्या -
श्रमं वंदे श्रीनृहरे० ॥ ३ ॥ मूके गां दृशमंधके सुतनयं वंध्यासु
चान्मृते सौभाग्यं विधवासु पल्लवमहो दत्तं सुशुकेन्धने । एवं-
भूत इयान् तवैष महिमा त्रैलोक्यसंस्थाक्षमो वंदे० ॥ ४ ॥
मुक्कावास मुमुक्षुकल्पविटपिन् भो कामिनां कामधुग्दारिद्रयानल-
मेघदुष्कृतदवाग्ने तापिताराम ते । श्रुत्यन्विष्टरजः पदं श्रुतविवादा-
तीततत्त्वं महद्वंदे श्रीनृहरे ० ॥ ५ ॥ भो योगीश्वरभावितं तव पदं
तीर्थाश्रयं सज्जनाजीवं कामिषु दैवतं च कमलालीलास्थलं निर्मलम् ।
विद्वद्वादकरंडकं सुकृतसंस्थानं महत्पावनं वंदे श्रीनृहरे० ॥ ६ ॥
वेदागोचर ते चरित्रममलं भक्तोऽत्र कः कृत्स्नशो वक्तुं वन्द्य
विनेन्दुभूतपवनात्मेतीह मूर्त्यष्टकम् । एतद्विश्वमयं तथान्यदिह वा
ॐकाररूपेशितुर्वन्दे० ॥ ७ ॥ कुंडीदंडकरे प्रशांतममलं संन्यासिरूपं
तव श्रीभीमामरजायुतिस्थितमजध्येयं शरण्यं मयि । ज्ञानं तार-
कमीशसत्यमनिशं ब्रह्मन् स्थिरीकुर्वदो वंदे श्रीनृहरे सरस्वति वरं
ते श्रीपदानद्वयम् ॥ ८ ॥ इति श्रीमद्वासुदेवानंदसरस्वती विरचितं
नृसिंहसरस्वत्यष्टकं संपूर्णम् ॥
 
४३७. नृसिंहसरस्वतीस्तोत्रम् ।
 

 
श्रीगणेशाय नमः ॥ विजयते जयते जय ते यतेरिह तमोहतमोह-
तमो नमः । हृदिकदायपदायसदा यदा तदुदयो न दयोनवियो-
नयः ॥ १ ॥ उदयते न यतेर्नयतेर्यंदा मनसि कामनिकामगति-
स्तदा । यदुदयो हृदयौकसितेसिते भवति योऽवति योगिवरावरान्
॥ २ ॥ भवति भावभवो विभवो यदा भवति कामनिकाममति-
स्तदा । भवति मानवगानवदुत्तमे भवतिरोधिरतो विरतोत्तमे ॥ ३ ॥
तव सतां वसतां मनसानसामपदयोः पदयोरजसांजसा । सुसहितः
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)