Proofing

This page has not been fully proofread.

नृसिंहसरस्वत्यष्टकम् ] संकीर्णस्तोत्राणि
 
८३७
 
एतत्ते कवचं पुण्यं देवतानां च दुर्लभम् ॥ १९ ॥ मृतसंजीवनं
नाम्ना महादेवेन कीर्तितम् । सहस्रावर्तनं चास्य पुरश्चरणमीरितम्
॥ २० ॥ यः पठेच्छृणुयान्नित्यं श्रावयेत्सुसमाहितः । स काल-
मृत्युं निर्जित्य सदाऽऽयुष्यं समश्नुते ॥ २१ ॥ हस्तेन वा यदा स्पृष्ट्वा
मृतं संजीवयत्यसौ । आधयो व्याधयस्तस्य न भवन्ति कदाचन
॥ २२ ॥ कालमृत्युमपि प्राप्तमसौ जयति सर्वदा । अणिमादि-
गुणैश्वर्यं लभते मानवोत्तमः ॥ २३ ॥ युद्धारम्भे पठित्वेदमष्टा-
विंशतिवारकम् । युद्धमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते
॥ २४ ॥ न ब्रह्मादीनि चास्त्राणि क्षयं कुर्वन्ति तस्य वै । विजयं
लभते देवयुद्धमध्येऽपि सर्वदा ॥ २५ ॥ प्रातरुत्थाय सततं यः
पठेत्कवचं शुभम् । अक्षयं लभते सौख्यमिह लोके परत्र च
॥ २६ ॥ सर्वव्याधिविनिर्मुक्तः सर्वरोगविवर्जितः । अजरामरणो
भूत्वा सदा षोडशवार्षिकः ॥ २७ ॥ विचरत्य खिलाँल्लोकान्प्राप्य
भोगांश्च दुर्लभान् । तस्मादिदं महागोप्यं कवचं समुदाहृतम् ।
मृतसंजीवनं नाम्ना दैवतैरपि दुर्लभम् ॥ २८ ॥ इति श्रीवसिष्ठ-
विरचितं मृतसंजीवनकवचं संपूर्णम् ॥
 
४३६. नृसिंहसरस्वत्यष्टकम् ।
 
श्रीगणेशाय नमः ॥ प्राग्ब्रह्मत्वमजोऽक्रियोऽपि बहुलः स्यामित्य-
भूद्धीस्तया सृष्ट्वैवांडभुवं ततो जगदिदं सृष्टं सधर्म गुणैः । स्वैः स्वं
भो रमयन्विहंसि सदरीमत्रावतीर्यानिशं वंदे श्रीनृहरे सरस्वति वरं
ते श्रीपदानद्वयम् ॥ १ ॥ कल्याकृष्टहृदुज्झितक्रतुनरत्रस्ताध्वरा-
शीर्मुदे प्राप्तः सूर्य इवोदितोऽस्यज महामोहांधकारं ग्रसन् । सद्धर्मा-
श्रमसेतुमत्र शिथिलप्रायं सुदार्व्यं नयन्वंदे श्रीनृहरे० ॥ २ ॥
सर्वानंदनिधानरूपममलं सत्त्वं सुखं मूर्तिमत्प्रादुष्कृत्य जनत्रयांतर
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)