Proofing

This page has not been fully proofread.

८३६
 
बृहत्स्तोत्ररत्नाकरे [मृतसंजीवनकवचम्
 
महादेवः प्राच्यां मां पातु सर्वदा ॥ ३ ॥ दधानः शक्ति-
ममयां त्रिमुखः षङ्मुजः प्रभुः । सदाशिवोऽग्निरूपी मामाग्नेय्यां
पातु सर्वदा ॥ ४ ॥ अष्टादशभुजोपेतो दण्डाभयकरो विभुः ।
यमरूपी महादेवो दक्षिणस्यां सदाऽवतु ॥ ५ ॥ खड्गाभयकरो
धीरो रक्षोगणनिषेवितः । रक्षोरूपी महेशो मां नैऋत्यां सर्वदाऽवतु
॥ ६ ॥ पाशाभयभुजः सर्वरत्नाकरनिषेवितः । वरुणात्मा महादेवः
पश्चिमे मां सदाऽवतु ॥ ७ ॥ गदाभयकरः प्राणनायकः सर्वदा
गतिः । वायव्यां मारुतात्मा मां शंकरः पातु सर्वदा ॥ ८ ॥
शङ्खाभयकरस्थो मां नायकः परमेश्वरः । सर्वात्मान्तरदिग्भागे
पातु मां शंकरः प्रभुः ॥ ९ ॥ शूलाभयकरः सर्वविद्यानामधि-
नायकः । ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ॥ १० ॥
ऊर्ध्वभागे ब्रह्मरूपी विश्वात्माऽधः सदाऽवतु । शिरो मे शंकरः
पातु ललाटं चन्द्रशेखरः ॥ ११ ॥ भ्रूमध्यं सर्व लोकेशस्त्रिनेत्रो
लोचनेऽवतु । भ्रूयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः
॥ १२ ॥ नासिकां मे महादेव भोष्ठौ पातु वृषध्वजः । जिह्वां
दक्षिणामूर्तिर्दन्तान्मे गिरिशोऽवतु ॥ १३ ॥ मृत्युंजयो मुखं
पातु कण्ठं मे नागभूषणः । पिनाकी मत्करौ पातु त्रिशूली हृदयं
मम ॥ १४ ॥ पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः । नाभि
पातु विरूपाक्षः पार्श्वों से पार्वतीपतिः ॥ १५ ॥ कटिद्वयं गिरीशो
मे पृष्ठ मे प्रमथाधिपः । गुह्यं महेश्वरः पातु ममोरू पातु भैरवः
॥ १६ ॥ जानुनी मे जगद्धर्ता जंघे मे जगदम्बिका । पादौ मे
सततं पातु लोकवन्द्यः सदाशिवः ॥ १७ ॥ गिरीशः पातु मे
भार्यां भवः पातु सुतान्मम । मृत्युंजयो ममायुष्यं चित्तं मे
गणनायकः ॥ १८ ॥ सर्वांगं मे सदा पातु कालकालः सदाशिवः ।
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)