2026-05-10 23:36:48 by ambuda-bot
This page has not been fully proofread.
मृतसंजीवनकवचम् ] संकीर्णस्तोत्राणि
४३४. श्रीशङ्करदेशिकाष्टकम् ।
८३५
श्रीगणेशाय नमः ॥ विदिताखिलशास्त्रसुधाजलधे महितोपनिष-
स्कथितार्थनिधे । हृदये कलये विमलं चरणं भव शंकरदेशिक मे
शरणम् ॥ १ ॥ करुणावरुणालय पालय मां भवसागरदुःख-
विदूनहृदम् । रचिताखिलदर्शनतत्त्वविदं भव शंकरदेशिक मे
शरणम् ॥ २ ॥ भवता जनता सुखिता भविता निजबोधविचारण-
चारुमते । कलयेश्वरजीवविवेकविदं भव शंकरदेशिक मे शरणम्
॥ ३ ॥ भव एव भवानिति मे नितरां समजायत चेतसि कौतु-
किता । मम वारय मोहमहाजलधिं भव शंकरदेशिक मे शरणम्
॥ ४ ॥ सुकृतेऽधिकृते बहुधा भवतो भविता पददर्शनलालसता ।
अतिदीनमिमं परिपालय मां भव शंकरदेशिक मे शरणम् ॥ ५ ॥
जगतीमवितुं कलिताकृतयो विचरन्ति महामहसश्छलतः । अहि-
मांशुरिवात्र विभासि पुरो भव शंकरदेशिक मे शरणम् ॥ ६ ॥
गुरुपुंगव पुंगवकेतन ते समतामयतां न हि कोऽपि सुधीः ।
शरणागतवत्सल तत्त्वनिधे भव शंकरदेशिक मे शरणम् ॥ ७ ॥
विदिता न मया विशदैककला न च किंचन काञ्चनमस्ति गुरो ।
द्रुतमेव विधेहि कृपां सहजां भव शंकरदेशिक मे शरणम् ॥ ८ ॥
इति श्रीशङ्करदेशिकाष्टकं संपूर्णम् ॥
४३५. मृतसंजीवनकवचम् ।
श्रीगणेशाय नमः ॥ सारात्सारतरं पुण्यं गुह्याद्गुह्यतरं शुभम् ।
महादेवस्य कवचं मृतसंजीवनाभिधम् ॥ १ ॥ समाहितमना
भूत्वा शृणुष्व कवचं शुभम् । श्रुत्वैतद्दिव्यकवचं रहस्यं कुरु
सर्वदा ॥ २ ॥ वराभयकरो यज्वा सर्वदेवनिषेवितः । मृत्युं
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)