Proofing

This page has not been fully proofread.

८३४
 
बृहत्स्तोत्ररत्नाकरे [भारतसावित्रीस्तोत्रम्
 
परम् ॥३॥ नमः सुनाभाखिलधर्मसेतवे ह्यधर्मशीलासुरधूमकेतवे ।
त्रैलोक्यगोपाय विशुद्धवर्चसे मनोजवायाद्भुतकर्मणे गृणे ॥ ४ ॥
त्वत्तेजसा धर्ममयेन संहृतं तमः प्रकाशश्च धृतो महात्मनाम् ।
दुरत्ययस्ते महिमा गिरां पते त्वद्रूपमेतत्सदसत्परावरम् ॥ ५ ॥
यदा विसृष्टस्त्वमनञ्जनेन वै बलं प्रविष्टोऽजित दैत्यदानवम् ।
बाहूदरोर्वङ्गिशिरोधराणि वृक्णन्नजस्रं प्रधने विराजसे ॥ ६॥ स
त्वं जगत्राणखलप्रहाणये निरूपितः सर्वसहो गदाभृता । विप्रस्य
चास्मत्कुलदैवहेतवे विधेहि भद्रं तदनुग्रहो हि नः ॥ ७ ॥ यद्यस्ति
दत्तमिष्टं वा स्वधर्मो वा स्वनुष्ठितः । कुलं नो विप्रदैवं चेद्विजो
भवतु विज्वरः ॥ ८ ॥ यदि नो भगवान्प्रीत एकः सर्वगुणाश्रयः ।
सर्वभूतात्मभावेन द्विजो भवतु विज्वरः ॥ ९ ॥ इत्यंबरीषकृतं
सुदर्शनस्तोत्रं संपूर्णम् ॥
 
४३३. भारतसावित्रीस्तोत्रम् ।
 
श्रीगणेशाय नमः ॥ व्यास उवाच ॥ मातापितृसहस्राणि पुत्रदार-
शतानि च । संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥ १ ॥
हर्षस्थानसहस्राणि भयस्थानशतानि च । दिवसे दिवसे मूढमा-
विशन्ति न पण्डितम् ॥ २ ॥ ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छू-
णोति मे । धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥ ३ ॥ न
जातु कामान्न भयान्न लोभाद्धर्मं त्यजेज्जीवितस्यापि हेतोः । नित्यो
धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः ॥ ४ ॥
इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत् । स भारतफलं प्राप्य
परं ब्रह्माधिगच्छति ॥ ५ ॥ इति श्रीमहाभारते शतसाहख्यां
संहितायां वैयासिक्यां स्वर्गारोहणपर्वणि भारतसावित्रीस्तोत्रं
संपूर्णम् ॥
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)