2026-05-10 23:36:48 by ambuda-bot
This page has not been fully proofread.
सुदर्शनस्तोत्रम् ]
संकीर्णस्तोत्राणि
८३३
सर्वत्र सर्वदा ॥ ६ ॥ एतन्मतं समातिष्ठ परमेण समाधिना ।
भवान्कल्पविकल्पेषु न विमुह्यति कर्हिचित् ॥ ७ ॥ इति
श्रीमद्भागवते महापुराणेऽष्टादशसाहख्यां संहितायां वैयासिक्यां
द्वितीयस्कंधे भगवद्ब्रह्मसंवादे चतुःश्लोकी भागवतं संपूर्णम् ॥
४३१. सप्तश्लोकी गीता ।
श्रीगणेशाय नमः ॥ ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ १ ॥ स्थाने हृषीकेश
तव प्रकीर्त्य जगत्प्रहृव्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो
द्रवंति सर्वे नमस्यति च सिद्धसंघाः ॥ २ ॥ सर्वतः पाणिपादं
तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति
॥ ३ ॥ कविं पुराणमनुशासितारमणोरणीयां समनुस्मरेद्यः । सर्वस्य
धातारमचिंत्यरूपमादित्यवर्णं तमसः परस्तात् ॥ ४ ॥ ऊर्ध्वमूल-
मधःशाखमश्वत्थं प्राहुरव्ययम् । छंदांसि यस्य पर्णानि यस्तं वेद
स वेदवित् ॥ ५ ॥ सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्ज्ञान-
मपोहनं च । वेदैश्व सर्वैरहमेव वेद्यो वेदांतकृद्वेदविदेव चाहम् ॥ ६ ॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वै-
वमात्मानं मत्परायणः ॥ ७ ॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सप्तश्लोकी गीता संपूर्णा ॥
४३२. सुदर्शनस्तोत्रम् ।
श्रीगणेशाय नमः ॥ अम्बरीष उवाच ॥ त्वमग्निर्भगवान्सूर्यस्त्वं
सोमो ज्योतिषां पतिः । त्वमापस्त्वं क्षितिर्व्योम वायुर्मात्रेन्द्रियाणि
च ॥ १ ॥ सुदर्शन नमस्तुभ्यं सहस्राराच्युतप्रिय । सर्वास्त्रधाति-
विप्राय स्वस्ति भूया इडस्पते ॥ २ ॥ त्वं धर्मस्त्वमृतं सत्यं
त्वं यज्ञोऽखिलयज्ञभुक् त्वं लोकपालः सर्वात्मा त्वं तेजः पौरुषं
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)