Proofing

This page has not been fully proofread.

८३२
 
बृहत्स्तोत्ररत्नाकरे [ चतुःश्लोकी भागवत
 
नहि सेवितानि । देवार्चनं च विधिवन्न कृतं कदापि तस्मात्त्वमेव
शरणं मम शंखपाणे ॥ ३ ॥ दुर्वासना मम सदा परिकर्षयंती
चित्तं शरीरमपि रोगगणा दहंति । संजीवनं च परहस्तगतं सदैव
तस्मात्त्वमेव शरणं मम शंखपाणे ॥ ४ ॥ पूर्वं कृतानि दुरितानि
मया तु यानि स्मृत्वाऽखिलानि हृदयं परिकंपते मे । ख्याता च ते
पतितपावनता तु यस्मात्तस्मात्त्वमेव शरणं मम शंखपाणे ॥ ५ ॥
दुःखं जराजननजं विविधाश्च रोगाः काकश्वशूकरजनीर्निरये च
पातः । ते विस्मृते फलमिदं विततं हि लोके तस्मात्त्वमेव शरणं
मम शंखपाणे ॥ ६ ॥ नीचोऽपि पापवलितोऽपि विनिंदितोऽपि
ब्रूयात्तवाहमिति यस्तु किलैकवारम् । तं यच्छसीश निजलोकमिति
व्रतं ते तस्मात्त्वमेव शरणं मम शंखपाणे ॥ ७ ॥ वेदेषु धर्मवचनेषु
तथागमेषु रामायणेऽपि च पुराणकदंबके वा । सर्वत्र सर्वविधिना
गदितस्त्वमेव तस्मात्त्वमेव शरणं मम शंखपाणे ॥ ८ ॥ इति
श्रीपरमहंसब्रह्मानंदस्वामिविरचितं श्रीहरिशरणाष्टकं संपूर्णम् ॥
४३०. चतुःश्लोकी भागवतम् ।
 
श्रीगणेशाय नमः ॥ श्रीभगवानुवाच । ज्ञानं परमगुह्यं मे यद्वि-
ज्ञानसमन्वितम् । सरहस्यं तदंगं च गृहाण गदितं मया ॥ १ ॥
यावानहं यथाभावो यद्रूपगुणकर्मकः । तथैव तत्त्वविज्ञानमस्तु ते
मदनुग्रहात् ॥ २ ॥ अहमेवासमेवाग्रे नान्यद्यत्सदसत्परम् ।
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ ३ ॥ ऋतेऽर्थं
यत्प्रतीयेत न प्रतीयेत चात्मनि । तद्विद्यादात्मनो मायां यथाभासो
यथा तमः ॥ ४ ॥ यथा महांति भूतानि भूतेषूच्चावचेष्वनु ।
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥ ५ ॥ एतावदेव
जिज्ञास्यं तत्त्वजिज्ञासुनाऽऽत्मनः । अन्वयव्यतिरेकाभ्यां यत्स्या-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)