Proofing

This page has not been fully proofread.

श्रीहरिशरणाष्टकम् ]
 
संकीर्णस्तोत्राणि
 
८३१
 
भयजलधितस्तापसतनुं गता रागं गंगातटगिरिगुहावाससहनम् ।
लपंत हे विष्णो सुरवर रमेशेति सततं समभ्येत्योदारं कमलनयनो
वक्ष्यति वचः ॥ ३ ॥ कदा मे हृत्पद्मे अमर इव पद्मे प्रतिवसन्
सदा ध्यानाभ्यासादनिशमुपहूतो विभुरसौ । स्फुरज्योतीरूपो
रविरिव रमासेव्यचरणो हरिष्यत्यज्ञानाज्जनिततिमिरं तूर्णमखिलम्
॥ ४ ॥ कदा मे भोगाशानिबिडभवपाशादुपरतं तपःशुद्धं बुद्धं
गुरुवचनतोदैरचपलम् । मनो मौंनं कृत्वा हरिचरणयोश्चारु सुचिरं
स्थितिं स्थाणुप्रायां भवभयहरां यास्यति पराम् ॥ ५ ॥ कदा मे
संरुद्धाखिलकरणजालस्य परितो जिताशेषप्राणानिलपरिकरस्य
प्रजपतः । सदोंकारं चित्तं हरिपदसरोजे धृतवतः समेष्यत्युल्लासं
मुहुरखिलरोमावलिरियम् ॥ ६ ॥ कदा प्रारब्धांते परिशिथिलतां
गच्छति शनैः शरीरे चाक्षौघेऽप्युपरतवति प्राणपवने । वदत्यूर्ध्व
शश्वन्मम वदनकंजे मुहुरहो करिष्यत्यावासं हरिरिति पदं पावन-
तमम् ॥ ७ ॥ कदा हित्वा जीर्णां त्वचमिव भुजंगस्तनुमिमां
चतुर्बाहुश्चक्रांबुजदरकरः पीतवसनः । घनश्यामो दूतैर्गगनगतिनीतो
नतिपरैर्गमिष्यामीशस्यांतिकमखिलदुःखांतकमिति ॥ ८ ॥ इति
श्रीमत्परमहंसब्रह्मानंदस्वामिविरचितमभिलाषाष्टकं संपूर्णम् ॥
४२९. श्रीहरिशरणाष्टकम् ।
 
श्रीगणेशाय नमः ॥ ध्येयं वदंति शिवमेव हि केचिदन्ये शक्तिं
गणेशमपरे तु दिवाकरं वै । रूपैस्तु तैरपि त्रिभासि यतस्त्वमेव
तस्मात्त्वमेव शरणं मम शंखपाणे ॥ १ ॥ नो सोदरो न जनको
जननी न जाया नैवात्मजो न च कुलं विपुलं बलं वा । संदृश्यते
न किल कोऽपि सहायको मे तस्मात्त्वमेव शरणं मम शंखपाणे
॥ २ ॥ नोपासिता मदमपास्य मया महांतस्तीर्थानि चास्तिकधिया
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)