Proofing

This page has not been fully proofread.

८२६
 
बृहत्स्तोत्ररत्नाकरे
 
[ अश्वत्थस्तोत्रम्
यज्ञगर्भो नमोऽस्तु ते ॥ ११ ॥ आयुर्बलं यशो वर्चः प्रजाः पशु-
वसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ १२ ॥
सततं वरुणो रक्षेच्चामारादृष्टिराश्रयेत् । परितस्त्वां निषेवंतां तृणानि
सुखमस्तु ते ॥ १३ ॥ अक्षिस्पंदं भुजस्पंदं दुःस्वप्नं दुर्विचिंतनम् ।
शत्रूणां च समुत्थानं ह्यश्वत्थ शमय प्रभो ॥ १४ ॥ अश्वत्थाय
वरेण्याय सर्वैश्वर्यप्रदायिने । नमो दुःस्वप्ननाशाय सुस्वमफलदायिने
॥ १५ ॥ मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे । अंततः शिव-
रूपाय वृक्षराजाय ते नमः ॥ १६ ॥ यं दृष्ट्वा मुच्यते रोगैः स्पृष्ट्वा
पापैः प्रमुच्यते । यदाश्रयाच्चिरंजीवी तमश्वत्थं नमाम्यहम् ॥ १७ ॥
अश्वत्थ सुमहाभाग सुभग प्रियदर्शन । इष्टकामांश्च मे देहि
शत्रुभ्यश्चापराभवम् ॥ १८ ॥ आयुः प्रजां धनं धान्यं सौभाग्यं
सर्वसंपदम् । देहि देव महावृक्ष त्वामहं शरणं गतः ॥ १९ ॥
ऋग्यजुःसाममंत्रात्मा सर्वरूपी परात्परः । अश्वत्थो वेदमूलोऽसा-
वृषिभिः प्रोच्यते सदा ॥ २० ॥ ब्रह्महा गुरुहा चैव दरिद्रो
व्याधिपीडितः । आवृत्य लक्षसंख्यं तत्स्तोत्रमेतत्सुखी भवेत्
॥ २१ ॥ ब्रह्मचारी हविष्याशी त्वधःशायी जितेंद्रियः । पापोपह-
तचित्तोऽपि व्रतमेतत्समाचरेत् ॥ २२ ॥ एकहस्तं द्विहस्तं वा
कुर्याद्गोमयलेपनम् । अर्चेत्पुरुषसूक्तेन प्रणवेन विशेषतः ॥ २३ ॥
मौनी प्रदक्षिणं कुर्यात्प्रागुक्तफलभाग्भवेत् । विष्णोर्नामसहस्रेण
ह्यच्युतस्यापि कीर्तनात् ॥ २४ ॥ पदे पदांतरं गत्वा करचेष्टावि-
वर्जितः । वाचा स्तोत्रं मनो ध्याने चतुरंग प्रदक्षिणम् ॥ २५ ॥
अश्वत्थः स्थापितो येन तत्कुलं स्थापितं ततः । धनायुषां समृद्धिस्तु
नरकात्तारयेत्पितन् ॥ २६ ॥ अश्वत्थमूलमाश्रित्य शाकान्नोदक-
दानतः । एकस्मिन्भोजिते विप्रे कोटिब्राह्मणभोजनम् ॥ २७ ॥
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)