Proofing

This page has not been fully proofread.

अश्वत्थस्तोत्रम् ]
 
संकीर्णस्तोत्राणि
 
८२५
 
र्निगमा अवोचुस्तं देवदेवमजमच्युतमाहुरग्रयम् ॥ २ ॥ प्रातर्नमामि
तमसः परमर्कवर्णं पूर्ण सनातनपदं पुरुषोत्तमाख्यम् । यस्मिन्निदं
जगदशेषमशेषमूर्ती रज्जौ भुजंगम इव प्रतिभासितं वै ॥ ३ ॥
श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम् । प्रातःकाले पठेद्यस्तु स
गच्छेत्परमं पदम् ॥ ४ ॥ इति श्रीमद्भगवत्पादाचार्यविरचितं
प्रातःस्मरणस्तोत्रं संपूर्णम् ॥
 
४२३. अश्वत्थस्तोत्रम् ।
 
श्रीगणेशाय नमः ॥ श्रीनारद उवाच ॥ अनायासेन लोकोऽयं
सर्वान्कामानवाप्नुयात् । सर्वदेवात्मकं चैकं तन्मे ब्रूहि पितामह
॥ १ ॥ ब्रह्मोवाच ॥ शृणु देवमुनेऽश्वत्थं शुद्धं सर्वात्मकं तरुम् ।
यत्प्रदक्षिणतो लोकः सर्वान्कामान्समभूते ॥ २ ॥ अश्वत्थादक्षिणे
रुद्रः पश्चिमे विष्णुरास्थितः । ब्रह्मा चोत्तरदेशस्थः पूर्वे विंवादि-
देवताः ॥ ३ ॥ स्कंधोपस्कंधपत्रेषु गोविप्रमुनयस्तथा । मूलं वेदाः
पयो यज्ञाः संस्थिता मुनिपुंगव ॥ ४ ॥ पूर्वादिदिक्षु संयाता
नदीनदसरोब्धयः । तस्मात्सर्वप्रयत्नेन ह्यश्वत्थं संश्रयेद्बुधः ॥ ५ ॥
त्वं क्षीर्यफलकश्चैव शीतलश्च वनस्पते । त्वामाराध्य नरो विद्यादै-
हिकामुष्मिकं फलम् ॥ ६ ॥ चलद्दलाय वृक्षाय सर्वदाश्रित-
विष्णवे । बोधितत्त्वाय देवाय ह्यश्वत्थाय नमो नमः ॥ ७ ॥
अश्वत्थ यस्मात्त्वयि वृक्षराज नारायणस्तिष्ठति सर्वकाले । अतः
श्रुतस्त्वं सततं तरूणां धन्योऽसि चारिष्टविनाशकोऽसि ॥ ८ ॥
क्षीरदस्त्वं च येनेह येन श्रीस्त्वां निषेवते । सत्येन तेन वृक्षेद्र
मामपि श्रीर्निषेवताम् ॥ ९ ॥ एकादशात्मरुद्रोऽसि वसुनाथ-
शिरोमणिः । नारायणोऽसि देवानां वृक्षराजोऽसि पिप्पल ॥ १० ॥
अग्निगर्भः शमीगर्भो देवगर्भः प्रजापतिः । हिरण्यगर्भो भूगर्भो
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)