2026-05-10 23:36:47 by ambuda-bot
This page has not been fully proofread.
८२४
बृहत्स्तोत्ररत्नाकरे [ प्रातःस्मरणस्तोत्रम्
विभवस्य प्रभविष्णोर्वा किं यत्सहिष्णुत्वम् ॥ २५ ॥ चिंतामणिरिव
दुर्लभमिह किं कथयामि चतुर्भद्रम् । किं तद्वदेति भूयो विधूत-
तमसो विशेषेण ॥ २६ ॥ दानं प्रिय वाक्सहितं ज्ञानमगर्व क्षमा-
न्वितं शौर्यम् । वित्तं त्यागसमेतं दुर्लभमेतच्चतुर्भद्रम् ॥ २७ ॥
इत्येषा कंठगता प्रश्नोत्तररत्नमालिका येषाम् । ते मुक्ताभरणा
विमलाश्चाभान्ति सत्समाजेषु ॥ २८ ॥ इति श्रीमत्परमहंस-
परिव्राजकाचार्यश्रीमच्छंकराचार्यविरचिता प्रश्नोत्तररत्नमालिका
संपूर्णा ॥
४२१. भगवत्प्रातःस्मरणम् ।
श्रीगणेशाय नमः ॥ प्रातः स्मरामि फणिराजतनौ शयानं नागाम-
रासुरनरादिजगन्निदानम् । वेदैः सहागमगणैरुपगीयमानं कांतार-
केतनवतां परमं निधानम् ॥ १ ॥ प्रातर्भजामि भवसागरवारिपारं
देवर्षिसिद्धनिव हैर्विहितोपहारम् । संदृप्तदानव कदंबमदापहारं सौंदर्य-
राशिजलराशि सुताविहारम् ॥ २ ॥ प्रातर्नमामि शरदंबरकांति-
कांतं पादारविंदमकरंदजुषां भवांतम् । नानावतारहृतभूमिभरं
कृतांतं पाथोजकंबुरथ पादकरं प्रशांतम् ॥ ३ ॥ श्लोकत्रयमिदं
पुण्यं ब्रह्मानंदेन कीर्तितम् । यः पठेत्प्रातरुत्थाय सर्वपापैः प्रमुच्यते
॥ ४ ॥ इति श्रीमत्परमहंसब्रह्मानंदस्वामिविरचितं श्रीभगवत्प्रातः-
स्मरणं संपूर्णम् ॥
४२२. प्रातःस्मरणस्तोत्रम् ।
श्रीगणेशाय नमः ॥ प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं सच्चि -
त्सुखं परमहंसगतिं तुरीयम् । यत्स्वप्नजागरसुषुप्तमवैति नित्यं ब्रह्म
निष्कलमहं न च भूतसंघः ॥ १ ॥ प्रातर्भजामि मनसो वचसा -
मगम्यं वाचो विभांति निखिला यदनुग्रहेण । यं नेतिनेतिवचनै-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)