Proofing

This page has not been fully proofread.

प्रश्नोत्तररत्नमालिका ] संकीर्णस्तोत्राणि
 
८२३
 
मनवद्यं किं जाड्यं पाठतोऽप्यनभ्यासः । को जागर्ति विवेकी का
निद्रा मूढता जंतोः ॥ १० ॥ नलिनीदलगतजलवत्तरलं किं यौवनं
धनं चायुः । कथय पुनः के शशिनः किरणसमाः सज्जना एव ॥ ११ ॥
को नरकः परवशता किं सौख्यं सर्वसंगविरतिर्या । किं साध्यं भूत-
हितं च प्रियं किं प्राणिनामसवः ॥ १२ ॥ किं दानमनाकांक्ष किं
मित्रं यन्निवर्तयति पापात् ॥ १३ ॥ कोऽलंकारः शीलं किं वाचां
मंडनं सत्यम् । किमनर्थफलं मानः सुसंगतिः का सुखावहा मैत्री
॥ १४ ॥ सर्वव्यसनविनाशे को दक्षः सर्वथा परित्यागी । कोंधो
योऽकार्यरतः को बधिरो यः शृणोति न हितानि ॥ १५ ॥ को
मूको यः काले प्रियाणि वक्तुं न जानाति । किं मरणं मूर्खत्वं किम-
नर्घ्यं दत्तमवसरे यच्च ॥ १६ ॥ आमरणात्किं शल्यं प्रच्छन्नं यत्कृतं
पापम् । कुत्र विधेयो यत्नो विद्याभ्यासो सदौषधे दाने ॥ १७ ॥
अवधीरणा व कार्या खलपरयोषित्परधनेषु । काऽहर्निशमनुचिंत्या
संसारासारता न तु प्रमदा ॥ १८ ॥ का प्रेयसी विधेया करुणा
दीनेषु सज्जने मैत्री । कंठगतैरप्यसुभिः कस्यात्मा न वशमुपयाति
॥ १९ ॥ मूर्खस्य विषादवतो गर्ववतोऽपि च कृतघ्नस्य । कः पूज्यः
सद्वृत्तः कमधममाचक्षते चलितवृत्तम् ॥ २० ॥ केन जितं जगदेत-
त्सत्यतितिक्षावता पुंसा । कुत्र विधेयो वासः सज्जननिकटेऽथ वा
काश्याम् ॥ २१ ॥ कस्मै नमस्त्रिया स्याद्देवानामपि दया प्रधा-
नस्य । कस्मादुद्वेजितव्यं संसारारण्यतः सुधिया ॥ २२ ॥ कस्य वशे
प्राणिगणः सत्यप्रियभाषिणो विनतस्य । क्व स्थातव्यं न्याय्ये पथि
दृष्टार्थलाभाय ॥ २३ ॥ विद्युद्विलसितचपलं किं दुर्जनसंग तिर्युवत-
यश्च । कुलशीलनिष्प्रकंपाः के कलिकालेऽपि ससज्जना एव ॥ २४ ॥
किं शोच्यं कार्पण्यं सति विभवे किं प्रशस्तमौदार्यम् । तनुतर-
 
Mestry Library Free Digitisation indoscripts.org (ISRT)