Proofing

This page has not been fully proofread.

८२२
 
बृहत्स्तोत्ररत्नाकरे
 
[ प्रश्नोत्तररत्नमालिका
 
स्तव नामघनोपमा । मयि कथं करुणार्णव जायते शिव ह० ॥ ८ ॥
हनुमतः प्रिय चापकर प्रभो सुरसरिद्धृतशेखर हे गुरो । मम विभो
किमु विस्मरणं कृतं शिव ह० ॥ ९ ॥ नरहरेर तिरंजनसुंदरं पठति
यः शिवरामकृतस्तवम् । विशति रामरमाचरणांबुजे शिव ह०
॥ १० ॥ प्रातरुत्थाय यो भक्त्या पठेदेकाग्रमानसः । विजयो जायते
तस्य विष्णुमाराध्यमाप्नुयात् ॥ ११ ॥ इति श्रीरामानंदविरचितं
शिवरामस्तोत्रं संपूर्णम् ॥
 
४२०. प्रश्नोत्तर रत्नमालिका ।
 
श्रीगणेशाय नमः ॥ कः खलु नालंक्रियते दृष्टादृष्टार्थसाधनपटी-
यान् । अनया कंठस्थितया प्रश्नोत्तररत्नमालिकया ॥ १ ॥ भगव-
न्किमुपादेयं गुरुवचनं हेयमपि च किमकार्यम् । को गुरुरधिगत-
तत्त्वः सत्त्वहितायोद्यतः सततम् ॥ २ ॥ त्वरितं किं कर्तव्यं सुधिया
संसारसंततिच्छेदः । किं मोक्षतरोर्बीजं सम्यग्ज्ञानं क्रियासिद्धम्
॥ ३ ॥ कः पथ्यतरो धर्मः कः शुचिरिह यस्य मानसं शुद्धम् ।
कः पंडितो विवेकी किं विषमवधीरणा गुरुषु ॥ ४ ॥ किं संसारे
सारं बहुशो विचिंत्यमानमिदमेव । किं मनुजेध्विष्टतमं स्वपरहिता-
योद्यतं जन्म ॥ ५ ॥ मदिरेव मोहजनकः कः स्नेहः के च दस्यवो
विषयाः । का भववल्ली तृष्णा को वैरी यस्त्वनुद्योगः ॥६॥ कस्मा-
जयमिह मरणादीशादिह को विशिष्यतेऽरागी । कः शूरो यो
ललनालोचनबाणैर्न च व्यथितः ॥ ७ ॥ पातुं कर्णांजलिभिः किम-
मृतमिव युज्यते सदुपदेशः । किं गुरुताया मूलं यदेतदप्रार्थनं
नाम ॥ ८ ॥ किं गहनं स्त्रीचरितं कश्चतुरो यो न खंडितस्तेन । किं
दारिद्र्यमसंतोषः किं लाघवमधमतो याचा ॥ ९ ॥ किं जीवित-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)