Proofing

This page has not been fully proofread.

शिवरामाष्टकम् ]
 
संकीर्णस्तोत्राणि
 
८२१
 
कविश्वमस्मात् । उदेति यस्मिन्नमतेऽस्तमेति वंदे० ॥ ४ ॥ रक्ता-
जपत्रायतकांतनेत्रं सद्दंडकुंडीपरिहापिताघम् । श्रितस्मितज्योत्स्नमु-
खेंदुशोभं वंदे० ॥ ५ ॥ नित्यं त्रयीमृग्यपदाब्जधूलिं निनादसद्वि-
न्दुकलास्वरूपम् । त्रितापतप्ताश्रितकल्पवृक्षं वंदे० ॥ ६ ॥ दैन्या-
धिभीकष्टदवाग्निमीड्यं योगाष्टकज्ञानसमर्पणोक्तम् । कृष्णानदीपंच-
सरिद्दयुतिस्थं वंदे० ॥ ७ ॥ अनादिमध्यांतमनंतशक्तिमतर्क्यभावं
परमात्मसंज्ञम् । व्यतीतवाग्घृत्पथमद्वितीयं वंदे नृसिंहेश्वर पाहि
मां त्वम् ॥ ८ ॥ इति श्रीमद्वासुदेवानंदसरस्वतीविरचितं नृसिंह-
सरस्वतीस्तोत्रं संपूर्णम् ॥
 
४१९. शिवरामाष्टकम् ।
 
श्रीगणेशाय नमः ॥ शिव हरे शिव रामसखे प्रभो त्रिविधताप-
निवारण हे विभो । अज जनेश्वर यादव पाहि मां शिव हरे विजयं
कुरु से वरम् ॥ १ ॥ कमललोचन राम दयानिधे हर गुरो गज-
रक्षक गोपते । शिवतनो भव शंकर पाहि मां शिव हरे विजयं •
॥ २ ॥ स्वजनरंजन मंगलमंदिरं भजति ते पुरुषं परमं पदम् ।
भवति तस्य सुखं परमद्भुतं शिवहरे वि० ॥ ३ ॥ जय युधिष्ठिर-
वल्लभ भूपते जय जयार्जित पुण्यपयोनिधे । जय कृपामय कृष्ण
नमोऽस्तु ते शिव हरे विजयं० ॥ ४ ॥ भवविमोचन माधव मापते.
सुकविमानसहंस शिवारते । जनकजारत राघव रक्ष मां शिव हरे
विजयं ० ॥ ५॥ अवनिमंडलमंगल मापते जलदसुंदर राम रमापते ।
निगमकीर्ति गुणार्णव गोपते शिव हरे विजयं • ६ ॥ पतितपावन
नाममयी लता तव यशो विमलं परिगीयते । तदपि माधव मां
किमुपेक्षसे शिव हरे विजयं ० ॥ ७ ॥ भ्रमरतापरदेव रमापते विजयत-
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)