Proofing

This page has not been fully proofread.

८१८
 
बृहत्स्तोत्ररत्नाकरे
 
७०
 
[ पाण्डवगीता
 
हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छयापि संस्पृष्टो
दहत्येव हि पावकः ॥ ६६ ॥ परमेश्वर उवाच ॥ सकृदुच्चरितं येन
हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षाय गमनं प्रति
॥ ६७ ॥ पुलस्त्य उवाच ॥ हे जिह्वे रससारज्ञे सर्वदा मधुरप्रिये ।
नारायणाख्यपीयूषं पिब जिह्वे निरन्तरम् ॥ ६८ ॥ व्यास
उवाच ॥ सत्यं सत्यं पुनः सत्यं सत्यं सत्यं वदाम्यहम् । नास्ति
वेदात्परं शास्त्रं न देवः केशवात्परः ॥ ६९ ॥ धन्वन्तरिरुवाच ॥
अच्युतानन्तगोविन्दनामोच्चारणभेषजात् । नश्यन्ति सकला
रोगाः सत्यं सत्यं वदाम्यहम् ॥ ॥ मार्कण्डेय उवाच ॥
स्वर्णदं मोक्षदं देवं सुखदं जगतो गुरुम् । कथं मुहूर्तमपि तं
वासुदेवं न चिन्तयेत् ॥ ७१ ॥ अगस्त्य उवाच ॥ निमिषं
निमिषार्धं वा प्राणिनां विष्णुचिन्तनम् । तत्र तत्र कुरुक्षेत्रं प्रयागो
नैमिषं वनम् ॥ ७२ ॥ वामदेव उवाच ॥ निमिषं निमिषार्धं वा
प्राणिनां विष्णुचिन्तनम् । कल्पकोटिसहस्राणि लभते वाञ्छितं
फलम् ॥ ७३ ॥ शुक उवाच ॥ आलोड्य सर्वशास्त्राणि विचार्य च
पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ ७४ ॥
श्रीमहादेव उवाच ॥ शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे ।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥ ७५ ॥ शौनक
उवाच ॥ भोजनाच्छादने चिन्तां वृथा कुर्वन्ति वैष्णवाः । योऽसौ
विश्वम्भरो देवः स किं भक्तानुपेक्षते ॥ ७६ ॥ सनत्कुमार उवाच ॥
यस्य हस्ते गदा चक्रं गरुडो यस्य वाहनम् । शङ्खचक्रगदापद्मी स
मे विष्णुः प्रसीदतु ॥ ७७ ॥ एवं ब्रह्मादयो देवा ऋषयश्च तपो-
धनाः । कीर्तयन्ति सुरश्रेष्ठमेवं नारायणं विभुम् ॥ ७८ ॥ इदं
पवित्रमायुष्यं पुण्यं पापप्रणाशनम् । दुःस्वप्ननाशनं स्तोत्रं पाण्डवैः
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)
 
.