Proofing

This page has not been fully proofread.

पाण्डवगीता ]
 
संकीर्णस्तोत्राणि
 
८१७
 
पञ्जरान्ते अद्यैव मे विशतु मानसराजहंसः । प्राणप्रयाणसमये
कफवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ ५३ ॥
विदुर उवाच ॥ हरेर्नामैव नामैव नामैव मम जीवनम् । कलौ
नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥ ५४ ॥ वसिष्ठ उवाच ॥
कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते । भस्मीभवन्ति तस्याशु
महापातककोटयः ॥ ५५ ॥ अरुन्धत्युवाच ॥ कृष्णाय वासुदेवाय
हरये परमात्मने । प्रणतक्लेशनाशाय गोविन्दाय नमो नमः
॥ ५६ ॥ कश्यप उवाच ॥ कृष्णानुस्मरणादेव पापसंघट्टपञ्जरम् ।
शतधा भेदमाप्नोति गिरिर्वज्रहतो यथा ॥ ५७ ॥ दुर्योधन
उवाच ॥ जानामि धर्मं न च मे प्रवृत्तिर्जानाम्यधर्मं न च मे
निवृत्तिः । केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा
करोमि ॥ ५८ ॥ यन्त्रस्य मम दोषेण क्षम्यतां मधुसूदन । अहं
यत्रं भवान् यन्त्री मम दोषो न दीयताम् ॥ ५९ ॥ भृगुरुवाच ॥
नामैव तव गोविन्द नाम त्वत्तः शताधिकम् । ददात्युच्चारणा-
न्मुक्तिं भवानष्टाङ्गयोगतः ॥ ६० ॥ लोमश उवाच ॥ नमामि
नारायणपादपङ्कजं करोमि नारायणपूजनं सदा । वदामि नारायण-
नाम निर्मलं स्मरामि नारायण तत्त्वमव्ययम् ॥ ६१ ॥ शौनक
उवाच ॥ स्मृते सकलकल्याण भाजनं यत्र जायते । पुरुषस्तमजं
नित्यं व्रजामि शरणं हरिम् ॥ ६२ ॥ गर्ग उवाच ॥ नारायणेति
मन्त्रोऽस्ति वागस्ति वशवर्तिनी । तथापि नरके घोरे पतन्तीत्यद्भुतं
महत् ॥ ६३ ॥ दाल्भ्य उवाच ॥ किं तस्य बहुभिर्मन्त्रैर्भक्तिर्यस्य
जनार्दने । नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ ६४ ॥
वैशम्पायन उवाच ॥ यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ६५ ॥ अग्निरुवाच ॥
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)