Proofing

This page has not been fully proofread.

८१६
 
बृहत्स्तोत्ररत्नाकरे
 
[ पाण्डवगीता
 
क्लेशनाशनः ॥४०॥ नारद उवाच ॥ जन्मान्तरसहस्रेण तपोध्यान-
समाधिना । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥ ४१ ॥
प्रह्राद उवाच ॥ नाथ योनिसहस्रेषु येषु येषु ब्रजाम्यहम् । तेषु
तेष्वचला भक्तिरच्युतास्तु सदा त्वयि ॥ ४२ ॥ या प्रीतिरविवे-
कानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्माऽप-
सर्पतु ॥ ४३ ॥ विश्वामित्र उवाच ॥ किं तस्य दानैः किं तीर्थेः
किं तपोभिः किमध्वरैः । यो नित्यं ध्यायते देवं नारायणमनन्यधीः
॥ ४४ ॥ जमदग्निरुवाच ॥ नित्योत्सवो भवेत्तेषां नित्यं नित्यं च
मङ्गलम् । येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः ॥ ४५ ॥
भरद्वाज उवाच ॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषा-
मिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ ४६ ॥ गौतम उवाच ॥
गोकोटिदानं ग्रहणेषु काशी प्रयागगङ्गायुतकल्पवासः । यज्ञायुतं
मेरुसुवर्णदानं गोविन्दनाम्ना न समं न तुल्यम् ॥ ४७ ॥ अग्नि-
रुवाच ॥ गोविन्देति सदा स्नानं गोविन्देति सदा जपः । गोवि-
न्देति सदा ध्यानं सदा गोविन्दकीर्तनम् ॥ ४८ ॥ त्र्यक्षरं परमं
ब्रह्म गोविन्दत्र्यक्षरं परम् । तस्मादुच्चरितं येन ब्रह्मभूयाय कल्पते
॥ ४९ ॥ श्रीबादरायणिरुवाच ॥ अच्युतः कल्पवृक्षोऽसावनन्तः
कामधेनवः । चिन्तामणिस्तु गोविन्दो हरेर्नाम विचिन्तयेत् ॥५०॥
हरिरुवाच ॥ जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु
कृष्णो वृष्णिवंशप्रदीपः । जयतु जयतु मेघश्यामलः कोमलाङ्गो
जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ ५१ ॥ पिप्पलायन
उवाच ॥ श्रीमन्नृसिंहविभवे गरुडध्वजाय तापत्रयोपशमनाय
भवौषधाय । कृष्णाय वृश्चिकजलाग्निभुजङ्गरोग क्लेशव्ययाय हरये
गुरवे नमस्ते ॥ ५२ ॥ आविर्होत्र उवाच ॥ कृष्ण त्वदीयपदपङ्कज-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)