2026-05-10 23:36:45 by ambuda-bot
This page has not been fully proofread.
पाण्डवगीता ]
संकीर्णस्तोत्राणि
८१५
त्वमेव माता च पिता त्वमेव त्वमेव बंधुश्च सखा त्वमेव । त्वमेव
विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ २८ ॥ द्रुपद
उवाच ॥ यज्ञेशाच्युत गोविन्द माधवाऽनन्त केशव । कृष्ण
विष्णो हृषीकेश वासुदेव नमोऽस्तु ते ॥ २९ ॥ जयद्रथ उवाच ॥
नमः कृष्णाय देवाय ब्रह्मणेऽनन्तशक्तये । योगेश्वराय योगाय
त्वामहं शरणं गतः ॥ ३० ॥ विकर्ण उवाच ॥ कृष्णाय वासु-
देवाय देवकीनन्दनाय च । नन्दगोपकुमाराय गोविन्दाय नमो
नमः ॥ ३१ ॥ सोमदत्त उवाच ॥ नमः परमकल्याण नमस्ते
विश्वभावन । वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ३२ ॥
विराट उवाच ॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय
च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ ३३ ॥
शल्य 'उवाच ॥ अतसीपुष्पसंकाशं पीतवाससमच्युतम् ।
ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् ॥ ३४ ॥
बलभद्र उवाच ॥ कृष्ण कृष्ण कृपालुस्त्वमगतीनां गतिर्भव ।
संसारार्णवमग्नानां प्रसीद पुरुषोत्तम ॥ ३५ ॥ श्रीकृष्ण उवाच ॥
कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यशः । जलं भित्त्वा
यथा पद्मं नरकादुद्धराम्यहम् ॥ ३६ ॥ नित्यं वदामि मनुजाः
स्वयमूर्ध्वबाहुर्यो मां मुकुन्द नरसिंह जनार्दनेति । जीवो जपत्य-
नुदिनं मरणे रणे वा पाषाणकाष्ठसदृशाय ददाम्यभीष्टम् ॥ ३७ ॥
ईश्वर उवाच ॥ सकृन्नारायणेत्युक्त्वा पुमान् कल्पशतत्रयम् ।
गङ्गादिसर्वतीर्थेषु स्नातो भवति पुत्रक ॥ ३८ ॥ सूत उवाच ॥ तत्रैव
गङ्गा यमुना च तत्र गोदावरी सिन्धुसरस्वती च । सर्वाणि तीर्थानि
वसन्ति तत्र यत्राच्युतोदारकथाप्रसङ्गः ॥ ३९ ॥ यम उवाच ॥ नरके
पच्यमाने तु यमेन परिभाषितम् । किं त्वया नार्चितो देवः केशवः
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)