2026-05-10 23:36:45 by ambuda-bot
This page has not been fully proofread.
८१४
बृहत्स्तोत्ररत्नाकरे
[ पाण्डवगीता
जाह्नवीतीरे कूपं खनति दुर्मतिः ॥ १७ ॥ धौम्य उवाच ॥
अपां समीपे शयनासनस्थिते दिवा च रात्रौ च यथाधिगच्छता ।
यद्यस्ति किञ्चित् सुकृतं कृतं मया जनार्दनस्तेन कृतेन तुष्यतु
॥ १८ ॥ संजय उवाच ॥ आर्ता विषण्णाः शिथिलाश्च भीता
घोरेषु व्याघ्रादिषु वर्तमानाः । सङ्कीर्त्य नारायणशब्दमात्रं विमुक्त-
दुःखाः सुखिनो भवन्ति ॥ १९ ॥ अक्रूर उवाच ॥ अहमस्मि
नारायणदासदासो दासस्य दासस्य च दासदासः । अन्यो न ईशो
जगतो नराणां तस्मादहं धन्यतरोऽस्मि लोके ॥ २० ॥ विराट
उवाच ॥ वासुदेवस्य ये भक्ताः शान्तास्तद्गतचेतसः । तेषां दासस्य
दासोऽहं भवेयं जन्मजन्मनि ॥ २१ ॥ भीष्म उवाच ॥ विपरी-
तेषु कालेषु परिक्षीणेषु बन्धुषु । त्राहि मां कृपया कृष्ण शरणा-
गतवत्सल ॥ २२ ॥ द्रोणाचार्य उवाच ॥ ये ये हताश्चक्रधरेण
दैत्यास्त्रैलोक्यनाथेन जनार्दनेन । ते ते गता विष्णुपुरीं नरेन्द्र
क्रोधोऽपि देवस्य वरेण तुल्यः ॥ २३ ॥ कृपाचार्य उवाच ॥
मज्जन्मनः फलमिदं मधुकैटभारे मत्प्रार्थनीयमदनुग्रह एष एव ।
त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्यभृत्यस्य भृत्य इति मां स्मर लोक-
नाथ ॥ २४ ॥ अश्वत्थामोवाच ॥ गोविन्द केशव जनार्दन वासुदेव
विश्वेश विश्व मधुसूदन विश्वरूप । श्रीपद्मनाभ पुरुषोत्तम देहि
दास्यं नारायणाऽच्युत नृसिंह नमो नमस्ते ॥ २५ ॥ कर्ण उवाच ॥
नान्यं वदामि न शृणोमि न चिन्तयामि नान्यं स्मरामि न भजामि
न चाश्रयामि । भक्त्या त्वदीयचरणाम्बुजमादरेण श्रीश्रीनिवास
पुरुषोत्तम देहि दास्यम् ॥ २६ ॥ धृतराष्ट्र उवाच ॥ नमो नमः
कारणवामनाय नारायणायामितविक्रमाय । श्रीशार्ङ्गचक्रासिगदा-
धराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ २७ ॥ गान्धार्युवाच ॥
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)