Proofing

This page has not been fully proofread.

पाण्डवगीता ]
 
संकीर्णस्तोत्राणि
 
८१३
 
स मे स्वयम्भूर्भगवान् प्रसीदतु ॥ ६ ॥ अर्जुन उवाच ॥ अचिन्त्य-
मव्यक्तमनन्तमव्ययं विभुं प्रभुं भावितविश्वभावनम् । त्रैलोक्यविस्ता-
रविचारकारकं हरिं प्रपन्नोऽस्मि गतिं महात्मनाम् ॥ ७ ॥ नकुल
उवाच॥ यदि गमनमधस्तात्कालपाशा नुबन्धाद्यदि च कुलविहीने
जायते पक्षिकीटे । कृमिशतमपि गत्वा ध्यायते चान्तरात्म मम भवतु
हृदिस्था केशवे भक्तिरेका ॥ ८ ॥ सहदेव उवाच ॥ तस्य यज्ञ-
वराहस्य विष्णोरतुलतेजसः । प्रणामं ये प्रकुर्वन्ति तेषामपि
नमो नमः ॥ ९ ॥ कुन्युवाच ॥ स्वकर्मफलनिर्दिष्टां यां यां
योनिं व्रजाम्यहम् । तस्यां तस्यां हृषीकेश त्वयि भक्तिर्दृढास्तु मे
॥ १० ॥ माद्र्युवाच ॥ कृष्णे रताः कृष्णमनुस्मरन्ति रात्रौ च
कृष्णं पुनरुत्थिता ये । ते भिन्नदेहाः प्रविशन्ति कृष्णं हविर्यथा
मन्त्रहुतं हुताशे ॥ ११ ॥ द्रौपद्युवाच ॥ कीटेषु पक्षिषु मृगेषु
सरीसृपेषु रक्षःपिशाचमनुजेष्वपि यत्र तत्र । जातस्य मे भवतु
केशव त्वत्प्रसादात्त्वय्येव भक्तिरचलाऽव्यभिचारिणी च ॥ १२ ॥
सुभद्रोवाच ॥ एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधाऽवभृथेन
तुल्यः । दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भ-
वाय ॥ १३ ॥ अभिमन्युरुवाच ॥ गोविन्द गोविन्द हरे मुरारे
गोविन्द गोविन्द मुकुन्द कृष्ण । गोविन्द गोविन्द रथाङ्गपाणे
गोविन्द गोविन्द नमामि नित्यम् ॥ १४ ॥ धृष्टद्युम्न उवाच ॥
श्रीराम नारायण वासुदेव गोविन्द वैकुण्ठ मुकुन्द कृष्ण ।
श्रीकेशवाऽनन्त नृसिंह विष्णो मां त्राहि संसारभुजङ्गदष्टम्
॥ १५ ॥ सात्यकिरुवाच ॥ अप्रमेय हरे विष्णो कृष्ण दामोदरा-
ऽच्युत । गोविन्दाऽनन्त सर्वेश वासुदेव नमोऽस्तु ते ॥ १६ ॥
उद्धव उवाच ॥ वासुदेवं परित्यज्य योऽन्यदेवमुपासते । तृषितो
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)