2026-05-10 23:36:44 by ambuda-bot
This page has not been fully proofread.
८१२
बृहत्स्तोत्ररत्नाकरे
[ पाण्डवगीता
चै त्वया । कीर्तिश्च दिक्षु विक्षिप्ता सर्वलोकमलापहा ॥ १६ ॥
अवतीर्य यदोवंशे विद्रूपमनुत्तमम् । कर्माण्युद्दामवृत्तानि हिताय
जगतोऽकृथाः ॥ १७ ॥ यानि ते चरितानीश मनुष्याः साधवः
कलौ । शृण्वन्तः कीर्तयन्तश्च तरिष्यन्त्यञ्जसा तमः ॥ १८ ॥
यदुवंशेऽवतीर्णस्य भवतः पुरुषोत्तम । शरच्छतं व्यतीयाय
पञ्चविंशाधिकं प्रभो ॥ १९ ॥ नाधुना तेऽखिलाधार देवकार्याव-
शेषितम् । कुलं च विप्रशापेन नष्टप्रायमभूदिदम् ॥ २० ॥ ततः
स्वधाम परमं विशस्त्र यदि मन्यसे । सलोकाँ लोकपालान्नः पाहि
वैकुण्ठकिंकरान् ॥ २१ ॥ इति देवस्तुतिः सम्पूर्णा ॥
४१६. पाण्डवगीता ।
श्रीगणेशाय नमः ॥ प्रह्लादनारदपराशरपुण्डरीकव्यासाम्बरीष-
शुकशौनकभीष्मदाल्भ्याः । रुक्माङ्गदार्जुनवसिष्ठविभीषणाद्या एता-
नहं परमभागवतान् नमामि ॥ १ ॥ लोमहर्षण उवाच ॥
धर्मो विवर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदर-
कीर्तनेन । शत्रुर्विनश्यति धनञ्जयकीर्तनेन माद्रीसुतौ कथयतां
न भवन्ति रोगाः ॥ २ ॥ ब्रह्मोवाच ॥ ये मानवा विगतराग-
पराऽपरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति । ध्यानेन तेन हत-
किल्बिषचेतनास्ते मातुः पयोधररसं न पुनः पिबन्ति ॥ ३ ॥ इन्द्र
उवाच ॥ नारायणो नाम नरो नराणां प्रसिद्धचौरः कथितः पृथि-
च्याम् । अनेकजन्मार्जितपापसंचयं हरत्यशेषं स्मृतमात्र एव यः॥४॥
युधिष्ठिर उवाच ॥ मेघश्यामं पीतकौशेयवस्त्रं श्रीवत्साङ्कं कौस्तु-
भोद्भासिताङ्गम् । पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्व-
लोकैकनाथम् ॥ ५ ॥ भीमसेन उवाच ॥ जलौघमग्ना सचराचरा
धरा विषाणकोट्याऽखिलविश्वमूर्तिना । समुद्धृता येन वराहरूपिणा
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)
f