2026-05-10 23:36:44 by ambuda-bot
This page has not been fully proofread.
देवस्तुतिः ]
संकीर्णस्तोत्राणि
८११
योग उत योगिभिरात्ममायां जिज्ञासुभिः परमभागवतैः परीष्टः
॥ ५ ॥ पर्युष्टया तव विभो वनमालयेयं संस्पर्धिनी भगवती
प्रतिपत्निवच्छ्रीः । यः सुप्रणीतममुयार्हणमाददन्नो भूयात्
सदाङ्गिरशुभाशयधूमकेतुः ॥ ६ ॥ केतुस्त्रिविक्रमयुतस्त्रिपतत्पताको
यस्ते भयाभयकरोऽसुरदेवचम्वोः । स्वर्गाय साधुषु खलेष्वितराय
भूमन् पादः पुनातु भगवन् भजतामघं नः ॥ ७ ॥ नस्योतगाव
इव यस्य वशे भवन्ति ब्रह्मादयस्तनुभृतो मिथुरर्द्यमानाः । कालस्य
ते प्रकृतिपूरुषयोः परस्य शं नस्तनोतु चरणः पुरुषोत्तमस्य ॥ ८ ॥
अस्यासि हेतुरुदय स्थिति संयमानामव्यक्तजीव महतामपि कालमाहुः ।
सोऽयं त्रिणाभिरखिलापचये प्रवृत्तः कालो गभीररय उत्तम-
पूरुषस्त्वम् ॥ ९ ॥ त्वत्तः पुमान् समगधिगम्य ययास्य वीर्यं धत्ते
महान्तमिव गर्भममोघवीर्यः । सोऽयं तयानुगत आत्मन आण्ड-
कोशं हैमं ससर्ज बहिरावरणैरुपेतम् ॥ १० ॥ तत्तस्थुषश्च
जगतश्च भवानधीशो यन्माययोत्थगुणविक्रिययोपनीतान् । अर्था-
सुषन्नपि हृषीकपते न लिप्तो येऽन्ये स्वतः परिहृतादपि बिभ्यति
स्म ॥ ११ ॥ स्मायावलोकलवदर्शितभावहारिभ्रमण्डलप्रहित-
सौरतमन्त्रशौण्डैः । पश्यस्तु षोडशसहस्रमनङ्गबाणैर्यस्येन्द्रियं विम-
थितुं करणैर्न विभ्व्यः ॥ १२ ॥ विभ्व्यस्तवामृतकथोदवहा-
त्रिलोक्याः पादावनेजसरितः शमलानि हन्तुम् । अनुश्रवं श्रुति-
भिरङ्घ्रिजमङ्गसङ्गैस्तीर्थद्वयं शुचिषदस्त उपस्पृशन्ति ॥ १३ ॥
बादरायणिरुवाच ॥ इत्यभिष्टृय विबुधैः सेशः शतष्टतिर्हरिम् ।
अभ्यभाषत गोविन्दं प्रणम्याम्बरमाश्रितः ॥ १४ ॥ ब्रह्मोवाच ॥
भूमेर्भारावताराय पुरा विज्ञापितः प्रभो । त्वमस्माभिरशेषात्मं-
स्तत्तथैवोपपादितम् ॥ १५ ॥ धर्मश्च स्थापितः सत्सु सत्यसन्धेषु
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)