Proofing

This page has not been fully proofread.

८१०
 
बृहत्स्तोत्ररत्नाकरे
 
[ देवस्तुतिः
 
समृतमित्यवयन्त्यबुधाः ॥ २४ ॥ स यदजया वजामनुशयीत
गुणांश्च जुषन् भजति सरूपतां तदनु मृत्युमपेतभगः । त्वमुत
जहासि तामहिरिव त्वचमात्तभगो महसि महीयसेऽष्टगुणितेऽपरि-
मेयभगः ॥ २५ ॥ यदि न समुद्धरन्ति यतयो हृदि कामजटा दुर-
धिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः । असुतृपयोगिनामुभय-
तोऽप्यसुखं भगवन्ननपगतान्तकादनधिरूढपदाद्भवतः ॥ २६ ॥
स्वदवगमी न वेत्ति भवदुत्थशुभाशुभयोर्गुणविगुणान्वयांस्तर्हि
देहभृतां च गिरः । अनुयुगमन्वहं सगुणगीतपरंपरया श्रवणभृतो
यतस्त्वमपवर्गगतिर्मनुजैः ॥ २७ ॥ द्युपतय एव ते न ययुरन्तमन-
न्ततया त्वमपि यदन्तराण्डनिचया ननु सावरणाः । ख इव
रजांसि वान्ति वयसा सह यच्छ्रुतयस्त्वयि हि फलन्त्यतन्निरसनेन
भवन्निधनाः ॥ २८ ॥ इति वेदस्तुतिः संपूर्णा ॥
 
४१५. देवस्तुतिः ।
 
श्रीगणेशाय नमः ॥ नताः स्म ते नाथ पदारविन्दं बुद्धीन्द्रिय-
प्राणमनोवचोभिः । यच्चिन्त्यतेऽन्तर्हृदि भावयुक्तैर्मुमुक्षुभिः
कर्ममयोरुपाशात् ॥ १ ॥ त्वं मायया त्रिगुणयात्मनि दुर्विभाव्यं
व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थः । नैतैर्भवानजित कर्मभिर-
ज्यते वै यत्स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्यः ॥ २ ॥ शुद्धिर्नृणां
न तु तथेड्य दुराशयानां विद्याश्रुताध्ययनदानतपः क्रियाभिः ।
सत्त्वात्मनामृषभ ते यशसि प्रवृद्धसच्छ्रद्धया श्रवणसंभृतया यथा
स्यात् ॥ ३ ॥ स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः क्षेमाय यो
मुनिभिरार्द्रहृदोह्यमानः । यः सात्वतैः समविभूतय आत्मवद्भि-
र्व्यूहेऽर्चितः सवनशः स्वरतिक्रमाय ॥ ४ ॥ यश्चिन्त्यते प्रयत-
पाणिभिरध्वराग्नौ त्रय्या निरुक्तविधिनेश हविर्गृहीत्वा । अध्यात्म-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)